द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः। धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः
चैद्यश्च येषां भ्राता च शिशुपालो महारथः।' सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत। दायाद्यतां च धर्मेण सम्यक्तेषु समाचर
इदं निर्दिष्टमयशः पुरोचनकृतं महत्। तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले। जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम्
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा। तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम्
बलवन्तश्च दाशार्हा बहवश्च विशांपते। यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप। को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत्
श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः। बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः
उक्तमेतत्पुरा राजन्मया गुणवतस्तव। दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः। `हितं च परमं सत्यमब्रूतां वाक्यमुत्तमम्।' हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः। तथैव धर्मतः सर्वे मम पुत्रा न संशयः
यथैव मम पुत्राणामिदं राज्यं विधीयते। तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्। तया च देवरूपिण्या कृष्णया सह भारत
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा। दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः। दिष्ट्या मम परं दुःखमपनीतं महाद्युते
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम्। आगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित्
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्। सकाशं यज्ञसेनस्य पाण्डवानां च भारत
समुपादाय रत्नानि वसूनि विविधानि च। द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः। द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्
स चापि प्रतिजग्राह धर्मेण विदुरं ततः। चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम्
ददर्श पाण्डवांस्तत्र वासुदेवं च भारत। स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः
तैश्चाप्यमितबुद्दिः स पूजितो हि यथाक्रमम्। वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनःपुनः
पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान्। प्रददौ चापि रत्नानि विविधानि वसूनि च
पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशांपते। द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः
प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः। द्रुपदं पाण्डुपुत्राणां सन्निधौ केशवस्य च
राजञ्छृणु सहामात्यः सपुत्रश्च वचो मम। धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः
अब्रवीत्कुशलं राजन्प्रीयमाणः पुनःपुनः। प्रीतिमांस्ते दृढं चापि संबन्धेन नराधिप
तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः। कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति
भारद्वाजो महाप्राज्ञो द्रोणः प्रियसखस्तव। समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति