मन्त्रिणस्ते न च श्रेयः प्रपश्यन्ति विशेषतः। अथ ते हृदये राजन्विशेषः स्वेषु वर्तते। अन्तरस्थं विवृण्वानाः श्रेयः कुर्युर्न ते ध्रुवम्
एतदर्थमिमौ राजन्महात्मानौ महाद्युती। नोचतुर्विवृतं किंचिन्न ह्येष तव निश्चयः
यच्चाप्यशक्यतां तेषामाहतुः पुरुषर्षभौ। तत्तथा पुरुषव्याघ्र तव तद्भद्रमस्तु ते
कथं हि पाण्डवः श्रीमान्सव्यसाची धनञ्जयः। शक्यो विजेतुं संग्रामे राजन्मघवतापि हि
भीमसेनो महाबाहुर्नागायुतबलो महान्। राक्षसानां भयकरो बाहुशाली महाबलः
हिडिम्बो निहतो येन बाहुयुद्धेन भारत। यो रावणसमो युद्धे तथा च बकराक्षसः
स युध्यमानो राजेन्द्र भीमो भीमपराक्रमः।' कथं स्म युधि शक्येत विजेतुममरैरपि
तथैव कृतिनौ युद्धे यमौ यमसुताविव। कथं विजेतुं शक्यौ तौ रणे जीवितुमिच्छता
यस्मिन्धृतिरनुक्रोशः क्षमा सत्यं पराक्रमः। नित्यानि पाण्डवे ज्येष्ठे स जीयेत रणे कथम्
येषां पक्षधरो रामो येषां मन्त्री जनार्दनः। किं नु तैरजितं सङ्ख्ये येषां पक्षे च सात्यकिः
द्रुपदः श्वशुरो येषां येषां स्यालाश्च पार्षताः। धृष्टद्युम्नमुखा वीरा भ्रातरो द्रुपदात्मजाः
चैद्यश्च येषां भ्राता च शिशुपालो महारथः।' सोऽशक्यतां च विज्ञाय तेषामग्रे च भारत। दायाद्यतां च धर्मेण सम्यक्तेषु समाचर
इदं निर्दिष्टमयशः पुरोचनकृतं महत्। तेषामनुग्रहेणाद्य राजन्प्रक्षालयात्मनः
तेषामनुग्रहश्चायं सर्वेषां चैव नः कुले। जीवितं च परं श्रेयः क्षत्रस्य च विवर्धनम्
द्रुपदोऽपि महान्राजा कृतवैरश्च नः पुरा। तस्य संग्रहणं राजन्स्वपक्षस्य विवर्धनम्
बलवन्तश्च दाशार्हा बहवश्च विशांपते। यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः
यच्च साम्नैव शक्येत कार्यं साधयितुं नृप। को दैवशप्तस्तत्कार्यं विग्रहेण समाचरेत्
श्रुत्वा च जीवतः पार्थान्पौरजानपदा जनाः। बलवद्दर्शने हृष्टास्तेषां राजन्प्रियं कुरु
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः। अधर्मयुक्ता दुष्प्रज्ञा बाला मैषां वचः कृथाः
उक्तमेतत्पुरा राजन्मया गुणवतस्तव। दुर्योधनापराधेन प्रजेयं वै विनङ्क्ष्यति
भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः। `हितं च परमं सत्यमब्रूतां वाक्यमुत्तमम्।' हितं च परमं वाक्यं त्वं च सत्यं ब्रवीषि माम्
यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः। तथैव धर्मतः सर्वे मम पुत्रा न संशयः
यथैव मम पुत्राणामिदं राज्यं विधीयते। तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः
क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान्। तया च देवरूपिण्या कृष्णया सह भारत
दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा। दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः
दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः। दिष्ट्या मम परं दुःखमपनीतं महाद्युते
एवमुक्तस्ततः क्षत्ता रथमारुह्य शीघ्रगम्। आगात्कतिपयाहोभिः पाञ्चालान्राजधर्मवित्
ततो जगाम विदुरो धृतराष्ट्रस्य शासनात्। सकाशं यज्ञसेनस्य पाण्डवानां च भारत
समुपादाय रत्नानि वसूनि विविधानि च। द्रौपद्याः पाण्डवानां च यज्ञसेनस्य चैव ह
तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः। द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान्