ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया। प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके
एतत्तव महाराज तेषु पुत्रेषु चैव हि। वृत्तमौपयिकं मन्ये भीष्मेण सह भारत
योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ। न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः
दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना। ब्रूयान्नि)श्रेयसं नाम कथं कुर्यात्सतां मतम्
न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा। विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्
कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः। ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति
श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः। आसीद्राजगृहे राजा मागधानां महीक्षिताम्
स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः। अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा
तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा। स लब्धबलमात्मानं मन्यमानोऽवमन्यते
स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च। आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा
तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत। तथाहि सर्वमादाय राज्यमस्य जिहीर्षति
हीनस्य करणैः सर्वैरच्छ्वासपरमस्य च। यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतं
किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता। यदि ते विहितं राज्यं भविष्यति विशांपते
मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्धुवम्। अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे
एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम्। दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्
विद्म ते भावदोषेण यदर्थमिदमुच्यते। दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत
हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम्। अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम्
अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम्। कुरवो वै विनङ्क्ष्यन्ति नचिरेणैव मे मतिः
राजन्निःसंशयं श्रेयो वाच्यस्त्वमसि बान्धवैः। न त्वशुश्रूषमाणे वै वाक्यं संप्रति तिष्ठति
प्रियं हितं च तद्वाक्यमुक्तवान्कुरुसत्तमः। भीष्मः शान्तनवो राजन्प्रतिगृह्णासि तन्न च
तथा द्रोणेन बहुधा भाषितं हितमुत्तमम्। तच्च राधासुतः कर्णो मन्यते न हितं तव
चिन्तयंश्च न पश्यामि राजंस्तव सुहृत्तमम्। आभ्यां पुरुषसिंहाभ्यां यो वा स्यात्प्रज्ञयाधिकः
इमौ हि वृद्धौ वयसा प्रज्ञया च श्रुतेन च। समौ च त्वयि राजेन्त्र तथा पाण्डुसुतेषु च
धर्मे चानवरौ राजन्सत्यतायां च भारत। रामाद्दाशरथेश्चैव गयाच्चैव न संशयः
न चोक्तवन्तावश्रेयः पुरस्तादपि किंचन। न चाप्यपकृतं किंचिदनयोर्लक्ष्यते त्वयि
तावुभौ पुरुषव्याघ्रावनागसि नृपे त्वयि। न मन्त्रयेतां त्वच्छ्रेयः कथं सत्यपराक्रमौ
प्रज्ञावन्तौ नरश्रेष्ठावस्मिँल्लोके नराधिप। त्वन्निमित्तमतो नेमौ किंचिज्जिह्मं वदिष्यतः
इति मे नैष्ठिकी बुद्धिर्वर्तते कुरुनन्दन। न चार्थहेतोर्धर्मज्ञौ वक्ष्यतः पक्षसंश्रितम्
एतद्धि परमं श्रेयो मन्येऽहं तव भारत। दुर्योधनप्रभृतयः पुत्रा राजन्यथा तव
तथैव पाण्डवेयास्ते पुत्रा राजन्न संशयः। तेषु चेदहितं किंचिन्मन्त्रयेयुरतद्विदः