न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च। शकिताश्चेप्सवश्चैव पितृपैतामहं पदम्
परस्परेण भेदश्च नाधातुं तेषु शक्यते। एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः। परिद्यूनान्वृतवती किमुताद्य मृजावतः
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता। तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा
आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः। न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम्
तथाऽस्म पुत्रो गुणवाननुरक्तश्च पाण्डवान्। तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ। यावन्न कृतमूलास्ते पाण्डवेया विशांपते
तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम्। अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः। तावत्प्रहरणं तेषां क्रियतां मा विचारय
वाहनानि प्रभूतानि मित्राणि च कुलानि च। यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः। सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव
यावन्नायाति वार्ष्णेयः कर्षन्यादववाहिनीम्। राज्यार्थे पाण्डवेयानां पाञ्चाल्यसदनं प्रति
वसूनि विविधान्भोगान्राज्यमेव च केवलम्। नात्याज्यमस्ति कृष्णस्य पाण्डवार्थे कथंचन
विक्रमेण मही प्राप्ता भरतेन महात्मना। विक्रमेण च लोकांस्त्रीञ्जितवान्पाकशासनः
विक्रमं च प्रशंसन्ति क्षत्रियस्य विशांपते। स्वको हि धर्मः शूराणां विक्रमः पार्थिवर्षभ
ते बलेन वयं राजन्महता चतुरङ्गिणा। प्रमथ्य द्रुपदं शीघ्रमानयामेह पाण्डवान्
न हि साम्ना न दानेन न भदेन च पाण्डवाः। शक्याः साधयितुं तस्माद्विक्रमेणैव ताञ्जहि
तान्विक्रमेण जित्वेमामखिलां भुङ्क्ष्व मेदिनीम्। अतो नान्यं प्रपश्यामि कार्योपायं जनाधिप
श्रुत्वा तु राधेयवचो धृतराष्ट्रः प्रतापवान्। अभिपूज्य ततः पश्चादिदं वचनमब्रवीत्
उपपन्नं महाप्राज्ञे कृतास्त्रे सूतनन्दने। त्वयि विक्रमसंपन्नमिदं वचनमीदृशम्
भूय एव तु भीष्मश्च द्रोणो विदुर एव च। युवां च कुरुतं बुद्धिं भवेद्या नः सुखोदया
तत आनाय्य तान्सर्वान्मन्त्रिणः सुमहायशाः। धृतराष्ट्रो महाराज मन्त्रयामास वै तदा
न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन। यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम। यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते। तथा कुरूणां सर्वेषामन्येषामपि पार्थिव
एवं गते विग्रहं तैर्न रोचे सन्धाय वीरैर्दीयतामर्धभूमिः। तेषामपीदं प्रपितामहानां राज्यं पितुश्चैव कुरूत्तमानाम्
दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि। मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः
यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः। कुत एव तवापीदं भारतस्यापि कस्यचित्
अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ। तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्। एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति। तवाप्यकीर्तिः सकला भविष्यति न संशयः