श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत्। ब्राह्मणानां कथयतां त्वरावान्गमने ह्यहम्
इत्युक्त्वान्तर्हिते योगात्तस्मिन्नृषिवरे प्रभौ। संभ्रमाविष्टहृदयो रुरुर्मेने तदद्भुतम्
बलं परममास्थाय पर्यधावत्समन्ततः। तमृषिं नष्टमन्विच्छन्संश्रान्तो न्यपतद्भुवि
स मोहे परमं गत्वा नष्टसंज्ञ इवाभवत्। तदृषेर्वचनं तथ्यं चिन्तयानः पुनःपुनः
लब्धसंज्ञो रुरुश्चायात्तदाचख्यौ पितुस्तदा। `पित्रे तु सर्वमाख्याय डुण्डुभस्य वचोऽर्थवत्
अपृच्छत्पितरं भूयः सोस्तीकस्य वचस्तदा। आख्यापयत्तदाऽऽख्यानं डुण्डुभेनाथ कीर्तितम्
तत्कीर्त्यमानं भगवञ्श्रोतुमिच्छामि तत्त्वतः।' पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत्
किमर्थं राजशार्दूलः स राजा जनमेजयः। सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे
निखिलेन यथातत्त्वं सौते सर्वमशेषतः। आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः
मोक्षयामास भुजगान्प्रदीप्ताद्वसुरेतसः। कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत्
स च द्विजातिप्रवरः कस्य पुत्रोऽभिधत्स्व मे
श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम्
आस्तीकस्य पुराणर्षेर्ब्राह्मणस्य यशस्विनः
कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिषु। पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः
शिष्यो व्यासस्य मेधावी ब्राह्मणेष्विदमुक्तवान्। तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम्
इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते। कथयिष्याम्यशेषेण सर्वपापप्रणाशनम्
आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः। ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा
जरत्कारुरिति ख्यात ऊर्ध्वरेता महातपाः। यायावराणां प्रवरो धर्मज्ञः संशितव्रतः
स कदाचिन्महाभागस्तपोबलसमन्वितः। चचार पृथिवीं सर्वां यत्रसायंगृहो मुनिः
तीर्थेषु च समाप्लावं कुर्वन्नटति सर्वशः। चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः
वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः। इतस्ततः परिचरन्दीप्तपावकसप्रभः
अटमानः कदाचित्स्वान्स ददर्श पितामहान्। लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्
तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान्। के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः
वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते। मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना
यायावरा नाम वयमृषयः संशितव्रताः। संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः। मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति। तेन लम्बामहे गर्ते संतानस्य क्षयादिह
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा। `येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा
न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि।' कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः। किमर्थं चैव नः शोच्याननुशोचसि सत्तम