परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम्। अथ तत्रैव वा तेषां निवासं रोचयन्तु ते
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्। ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः
अथवा कुशळाः केचिदुपायनिपुणा नराः। इतरेतरतः पार्थान्भेदयन्त्वनुरागतः
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्। अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः। मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः
तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते। सहि तीक्ष्णश्च शूरश्च तेषां चैव परायणम्
तस्मिंस्त्वभिहते राजन्हतोत्साहा हतौजसः। यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे। तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्
ते जानानास्तु दौर्बल्यं भीमसेनमृते महत्। अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः
इहागतेषु वा तेषु निदेशवशवर्तिषु। प्रवर्तिष्यामहे राजन्यथाशास्त्रं निबर्हणम्
दर्पं वा वदतां तेषां केचिदत्र मनस्विनः। द्रुपदस्यात्मजा राजन्प्रभिद्यन्ते ततः परैः
अथवा दर्शनीयाभिः प्रमदाभिर्विलोभ्यताम्। एकैकस्तत्र कौन्तेयस्ततः कृष्णा विरज्यताम्
प्रेष्यतां चैव राधेयस्तेषामागमनाय वै। तैस्तैः प्रकारैः सन्नीय पात्यन्तामाप्तकारिभिः
एतेषामप्युपायानां यस्ते निर्दोषवान्मतः। तस्य यप्रोगमातिष्ठ पुरा कालोऽतिवर्तते
यावद्ध्यकृतविश्वासा द्रुपदे पार्थिवर्षभे। तावदेव हि ते शक्या न शक्यास्तु ततः परम्
एषा मम मतिस्तात निग्रहाय प्रवर्तते। साध्वी वा यदि वाऽसाध्वी किं वा राधेय मन्यसे
दुर्योधन तव प्रज्ञा न सम्यगिति मे मतिः। न ह्युपायेन ते शक्याः पाण्डवाः कुरुवर्धन
पूर्वमेव हि ते सूक्ष्मैरुपायैर्यतितास्त्वया। निग्रहीतुं तदा वीर न चैव शकितास्त्वया
इहैव वर्तमानास्ते समीपे तव पार्थिव। अजातपक्षाः शिशवः शकिता नैव बाधितुम्
जातपक्षा विदेशस्था विवृद्धाः सर्वशोऽद्य ते। नोपायसाध्याः कौन्तेया ममैषा मतिरच्युता
न च ते व्यसनैर्योक्तुं शक्या दिष्टकृतेन च। शकिताश्चेप्सवश्चैव पितृपैतामहं पदम्
परस्परेण भेदश्च नाधातुं तेषु शक्यते। एकस्यां ये रताः पत्न्यां न भिद्यन्ते परस्परम्
न चापि कृष्णा शक्येत तेभ्यो भेदयितुं परैः। परिद्यूनान्वृतवती किमुताद्य मृजावतः
ईप्सितश्च गुणः स्त्रीणामेकस्या बहुभर्तृता। तं च प्राप्तवती कृष्णा न सा भेदयितुं क्षमा
आर्यव्रतश्च पाञ्चाल्यो न स राजा धनप्रियः। न संत्यक्ष्यति कौन्तेयान्राज्यदानैरपि ध्रुवम्
तथाऽस्म पुत्रो गुणवाननुरक्तश्च पाण्डवान्। तस्मान्नोपायसाध्यांस्तानहं मन्ये कथंचन
इदं त्वद्य क्षमं कर्तुमस्माकं पुरुषर्षभ। यावन्न कृतमूलास्ते पाण्डवेया विशांपते
तावत्प्रहरणीयास्ते तत्तुभ्यं तात रोचताम्। अस्मत्पक्षो महान्यावद्यावत्पाञ्चालको लघुः। तावत्प्रहरणं तेषां क्रियतां मा विचारय
वाहनानि प्रभूतानि मित्राणि च कुलानि च। यावन्न तेषां गान्धारे तावद्विक्रम पार्थिव
यावच्च राजा पाञ्चाल्यो नोद्यमे कुरुते मनः। सह पुत्रैर्महावीर्यैस्तावद्विक्रम पार्थिव