अन्ववाये वसोर्जातः प्रवरे मात्स्यके कुले। वृत्तविद्यातपोवृद्धः पार्थिवानां च संमतः
पुत्राश्चास्य तथा पौत्राः सर्वे सुचरितव्रताः। तेषां संबन्धिनश्चान्ये बहवः सुमहाबलाः
यथैव पाण्डोः पुत्रास्ते ततोऽप्यभ्यधिका मम। सेयमभ्यधिकान्येभ्यो वृत्तिर्विदुर मे मता
या प्रीतिः पाण्डुपुत्रेषु न साऽन्यत्र ममाभिभो। नित्योऽयं चिन्तितः क्षत्तः सत्यं सत्येन शपे
यत्ते कुशलिनो वीराः पाण्डुपुत्रा महारथाः। मित्रवन्तोऽभवन्पुत्रा दुर्योधनमुखास्तथा
मया श्रुतं यदा वह्नेर्दग्धाः पाण्डुसुता इति। तदाऽदह्यं दिवारात्रं न भोक्ष्ये न स्वपामि च
असहायाश्चं मे पुत्रा लूनपक्षा इव द्विजाः। तत्त्वतः शृणु मे क्षत्तः सुसहायाः सुता मम। अद्य वै स्थिरसाम्राज्यमाचन्द्रार्कं ममाभवत्
को हि द्रुपदमासाद्य मित्रं क्षत्तः सबान्धवम्। न बुभूषेद्भवेनार्थी गतश्रीरपि पार्थिवः
तं तथा भाषमाणं तु विदुरः प्रत्यभाषत। नित्यं भवतु ते बुद्धिरेषा राजञ्छतं समाः। इत्युक्त्वा प्रययौ राजन्विदुरः स्वं निवेशनम्
ततो दुर्योधनश्चापि राधेयश्च विशांपते। धृतराष्ट्रमुपागम्य वचोऽब्रूतामिदं तदा
सन्निधौ विदुरस्य त्वां दोषं वक्तुं न शक्नुवः। विविक्तमिति वक्ष्यावः किं तवेदं चिकीर्षितम्
सपत्नवृद्धिं यत्तात मन्यसे वृद्धिमात्मनः। अभिष्टौषि च यत्क्षत्तुः समीपे द्विपदांवर
अन्यस्मिन्नृप कर्तव्ये त्वमन्यत्कुरुषेऽनघ। तेषां बलविघातो हि कर्तव्यस्तात नित्यशः
ते वयं प्राप्तकालस्य चिकीर्षां मन्त्रयामहे। यथा नो न ग्रसेयुस्ते सपुत्रबलबान्धवान्
दुर्योधनेनैवमुक्तः कर्णेन च विशांपते। पुत्रं च सूतपुत्रं च धृतराष्ट्रोऽब्रवीदिदम्
अहमप्येवमेवैतच्चिकीर्षामि यथा युवाम्। विवेक्तुं नाहमिच्छामि त्वाकारं विदुरं प्रति
ततस्तेषां गुणानेव कीर्तयामि विशेषतः। नावबुध्येत विदुरो ममाभिप्रायमिङ्गितैः
यच्च त्वं मन्यसे प्राप्तं तद्ब्रवीहि सुयोधन। राधेय मन्यसे यच्च प्राप्तकालं वदाशु मे
अद्य तान्कुशलैर्विप्रैः सुगुप्तैराप्तकारिभिः। कुन्तीपुत्रान्भेदयामो माद्रीपुत्रौ च पाण्डवौ
अथवा द्रुपदो राजा महद्भिर्वित्तसंचयैः। पुत्राश्चास्य प्रलोभ्यन्ताममात्याश्चैव सर्वशः
परित्यजेद्यथा राजा कुन्तीपुत्रं युधिष्ठिरम्। अथ तत्रैव वा तेषां निवासं रोचयन्तु ते
इहैषां दोषवद्वासं वर्णयन्तु पृथक्पृथक्। ते भिद्यमानास्तत्रैव मनः कुर्वन्तु पाण्डवाः
अथवा कुशळाः केचिदुपायनिपुणा नराः। इतरेतरतः पार्थान्भेदयन्त्वनुरागतः
व्युत्थापयन्तु वा कृष्णां बहुत्वात्सुकरं हि तत्। अथवा पाण्डवांस्तस्यां भेदयन्तु ततश्च ताम्
भीमसेनस्य वा राजन्नुपायकुशलैर्नरैः। मृत्युर्विधीयतां छन्नैः स हि तेषां बलाधिकः
तमाश्रित्य हि कौन्तेयः पुरा चास्मान्न मन्यते। सहि तीक्ष्णश्च शूरश्च तेषां चैव परायणम्
तस्मिंस्त्वभिहते राजन्हतोत्साहा हतौजसः। यतिष्यन्ते न राज्याय स हि तेषां व्यपाश्रयः
अजेयो ह्यर्जुनः सङ्ख्ये पृष्ठगोपे वृकोदरे। तमृते फाल्गुनो युद्धे राधेयस्य न पादभाक्
ते जानानास्तु दौर्बल्यं भीमसेनमृते महत्। अस्मान्बलवतो ज्ञात्वा न यतिष्यन्ति दुर्बलाः
इहागतेषु वा तेषु निदेशवशवर्तिषु। प्रवर्तिष्यामहे राजन्यथाशास्त्रं निबर्हणम्