तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः। सर्वमेतदहं जाने वधात्तस्य तु रक्षसः
तत उद्योजयामास माधवश्चतुरङ्गिणीम्। सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति
ततः संकर्षणश्चैव केशवश्च महाबलः। यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः
पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम्। द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान्। न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः। रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते। यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्
अथ दुर्योधनो राजा विमना भ्रातृभिः सह। अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्। तं तु दुःशासनोऽव्रीडो मन्दंमन्दमिवाब्रवीत्
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः। न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्
दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम्। धिगस्तु पौरुषं मन्त्रं यद्धरन्तीह पाण्डवाः
बध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम्। उद्वाह्य राज्ञां तैर्न्यस्तो वामः पादः पृथासुतैः
विमुक्ताः कथमेतेन जतुवेश्मविर्भुजः। अस्माकं पौरुषं सत्वं बुद्धिश्चापि गता ततः
वयं हता मातुलाद्य विश्वस्य च पुरोचनम्। अदग्ध्वा पाण्डवानेतान्स्वयं दग्धो हुताशने
मत्तो मातुल मन्येऽहं पाण्डवा बुद्धिमत्तराः। तेषां नास्ति भयं मृत्योर्मुक्तानां जतुवेश्मनः
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम्। पञ्चपुत्रां किरातीं च विदुरं च महामतिम्
विविशुर्हास्तिनपुरं दीना विगतचेतसः
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः। मुक्तान्हव्यभुजश्चैव संयुक्तान्द्रुपदेन च
धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम्। द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान्
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान्। व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्
ततः प्रीतमनाः क्षत्ता धृतराष्ट्रं विशांपते। उवाच दिष्ट्या कुरवो वर्ध्त इति विस्मितः
वैचित्रवीर्यस्तु नृपो निशम्य विदुरस्य तत्। अब्रवीत्परमप्रीतो दिष्ट्या दिष्ट्येति भारत
मन्यते स वृतं पुत्रं ज्येष्ठं द्रुपदकन्यया। दुर्योधनमविज्ञानात्प्रज्ञाचक्षुर्नरेश्वरः
अथ त्वाज्ञापयामास द्रौपद्या भूषणं बहु। आनीयतां वै कृष्णेति पुत्रं दुर्योधनं तदा
अथ स्म पश्चाद्विदुर आचख्यावम्बिकात्मजम्। कौरव्या इति सामान्यान्न मन्येथास्तवात्मजान्
वर्धन्त इति मद्वाक्याद्वर्धिताः पाण्डुनन्दनाः। कृष्णया संवृताः पार्था विमुक्ता राजसङ्गरात्
दिष्ट्या कुशलिनो राजन्पूजिता द्रुपदेन च
एतच्छ्रुत्वा तु वचनं विदुरस्य नराधिपः। आकारच्छादनार्थाय दिष्ट्यादिष्ट्येति चाब्रवीत्
एवं विदुर भद्रं ते यदि जीवन्ति पाण्डवाः। न ममौ मे तनौ प्रीतिस्त्वद्वाक्यामृतसंभवा
साध्वाचारतया तेषां संबन्धो द्रुपदेन च। बभूव परमश्लाघ्यो दिष्ट्यादिष्ट्येति चाब्रवीत्