नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम्। स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः। मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह
यावत्तद्युद्धमभवन्महद्देवासुरोपमम्। तावदेवाभवच्छान्तं निवृत्ता वै महारथाः
सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम्। कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम्
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि। तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन्
ततः प्रयाता राजानः सर्व एव यथागतम्। धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा
प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः। प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये
तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम्। ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ
कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः। आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात्
समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम्। आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः। सर्वमेतदहं जाने वधात्तस्य तु रक्षसः
तत उद्योजयामास माधवश्चतुरङ्गिणीम्। सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति
ततः संकर्षणश्चैव केशवश्च महाबलः। यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः
पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम्। द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान्। न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः। रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते। यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्
अथ दुर्योधनो राजा विमना भ्रातृभिः सह। अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्। तं तु दुःशासनोऽव्रीडो मन्दंमन्दमिवाब्रवीत्
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः। न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्
दैवं च परमं मन्ये पौरुषं चाप्यनर्थकम्। धिगस्तु पौरुषं मन्त्रं यद्धरन्तीह पाण्डवाः
बध्वा चक्षूंषि नः पार्था राज्ञां च द्रुपदात्मजाम्। उद्वाह्य राज्ञां तैर्न्यस्तो वामः पादः पृथासुतैः
विमुक्ताः कथमेतेन जतुवेश्मविर्भुजः। अस्माकं पौरुषं सत्वं बुद्धिश्चापि गता ततः
वयं हता मातुलाद्य विश्वस्य च पुरोचनम्। अदग्ध्वा पाण्डवानेतान्स्वयं दग्धो हुताशने
मत्तो मातुल मन्येऽहं पाण्डवा बुद्धिमत्तराः। तेषां नास्ति भयं मृत्योर्मुक्तानां जतुवेश्मनः
एवं संभाषमाणास्ते निन्दन्तश्च पुरोचनम्। पञ्चपुत्रां किरातीं च विदुरं च महामतिम्
विविशुर्हास्तिनपुरं दीना विगतचेतसः
त्रस्ता विगतसंकल्पा दृष्ट्वा पार्थान्महौजसः। मुक्तान्हव्यभुजश्चैव संयुक्तान्द्रुपदेन च
धृष्टद्युम्नं तु संचिन्त्य तथैव च शिखण्डिनम्। द्रुपदस्यात्मजांश्चान्यान्सर्वयुद्धविशारदान्
विदुरस्त्वथ ताञ्श्रुत्वा द्रौपद्या पाण्डवान्वृतान्। व्रीडितान्धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्