तैः शरैराहतं कर्णं ध्वजयष्टिमुपाश्रितम्। अपोवाह रथाच्चाशु सूतः परपुरंजयम्
ततः पराजिते कर्णे धार्तराष्ट्रान्महाभयम्। विवेश समुदग्रांश्च पाण्डवान्प्रसमीक्ष्य तु
तत्प्रकम्पितमत्यर्थं तद्दृष्ट्वा सौबलो बलम्। गिरा मधुरया चापि समाश्वासयतासकृत्
धार्तराष्ट्रैस्ततः सर्वैर्दुर्योधनपुरःसरैः। धृतं तत्पुनरेवासीद्बलं पार्थप्रपीडितम्
ततो दुर्योधनं दृष्ट्वा भीमो भीमपराक्रमः। अक्रुध्यत्स महाबाहुरगारं जातुषं स्मरन्
ततः संग्रामशिरसि ददर्श विपुलद्रुमम्। आयामभूतं तिष्ठन्तं स्कन्धपञ्चाशदुन्नतम्
महास्कन्धं महोत्सेधं शक्रध्वजमिवोच्छ्रितम्। तमुत्पाठ्य च पाणिभ्यामुद्यम्य चरणावपि
अभिपेदे परान्सङ्ख्ये वज्रपाणिरिवासुरान्। भीमसेनभयार्तानि फल्गुनाभिहतानि च
न शेकुस्तान्यनीकानि धार्तराष्ट्राण्युदीक्षितुम्। तानि संभ्रान्तयोधानि श्रान्तवाजिगजानि च
दिशः प्राकालयद्भीमो दिवीवाभ्राणि मारुतः। तान्निवृत्तान्निरानन्दान्नरवारणवाजिनः
नानुसस्रुर्न चाजघ्नुर्नोचुः किंचिच्च दारुणम्। स्वमेव शिबिरं जग्मुः क्षत्रियाः शरविक्षताः
परेऽप्यभिययुर्हृष्टाः पुरं पौरसुखावहाः। मुहूर्तमभवद्युद्धं तेषां वै पाण्डवैः सह
यावत्तद्युद्धमभवन्महद्देवासुरोपमम्। तावदेवाभवच्छान्तं निवृत्ता वै महारथाः
सुव्रतं चक्रिरे सर्वे सुवृतामब्रुवन्वधूम्। कृतार्थं द्रुपदं चोचुर्धृष्टद्युम्नं च पार्षतम्
शकुनिः सिन्धुराजश्च कर्णदुर्योधनावपि। तेषां तदाभवद्दुःखं हृदि वाचा तु नाब्रुवन्
ततः प्रयाता राजानः सर्व एव यथागतम्। धार्तराष्ट्रा हि ते सर्वे गता नागपुरं तदा
प्रागेव पूर्निरोधात्तु पाण्डवैरश्वसादिनः। प्रेषिता गच्छतारिष्टानस्मानाख्यात शौरये
तेऽचिरेणैव कालेन संप्राप्ता यादवीं पुरीम्। ऊचुः संकर्षणोपेन्द्रौ वचनं वचनक्षमौ
कुशलं पाण्डवाः सर्वानाहुः स्मान्धकवृष्णयः। आत्मनश्चाहतानाहुर्विमुक्ताञ्जातुषाद्गृहात्
समाजे द्रौपदीं लब्धामाहू राजीवलोचनाम्। आत्मनः सदृशीं सर्वैः शीलवृत्तसमाधिभिः
तच्छ्रुत्वा वचनं कृष्णस्तानुवाचोत्तरं वचः। सर्वमेतदहं जाने वधात्तस्य तु रक्षसः
तत उद्योजयामास माधवश्चतुरङ्गिणीम्। सेनामुपानयत्तूर्णं पाञ्चालनगरीं प्रति
ततः संकर्षणश्चैव केशवश्च महाबलः। यादवैः सह सर्वैश्च पाण्डवानभिजग्मतुः
पितृष्वसारं संपूज्य नत्वा चैव तु यादवीम्। द्रौपदीं भूषणैः शुभ्रैर्भूषयित्वा यथाविधि
पाण्डवान्हर्षयित्वा तु पूजयामासतुश्च तान्। न्यायतः पूजितौ राज्ञा द्रुपदेन महात्मना
यादवाः पूजिताः सर्वे पाण्डवैश्च महात्मभिः। रेमिरे पाण्डवैः सार्धं ते पाञ्चालपुरे तदा
वृत्ते स्वयंवरे चैव राजानः सर्व एव ते। यथागतं विप्रजग्मुर्विदित्वा पाण्डवान्वृतान्
अथ दुर्योधनो राजा विमना भ्रातृभिः सह। अश्वत्थाम्ना मातुलेन कर्णेन च कृपेण च
विनिवृत्तो वृतं दृष्ट्वा द्रौपद्या श्वेतवाहनम्। तं तु दुःशासनोऽव्रीडो मन्दंमन्दमिवाब्रवीत्
यद्यसौ ब्राह्मणो न स्याद्विन्देत द्रौपदीं न सः। न हि तं तत्त्वतो राजन्वेद कश्चिद्धनंजयम्