पुत्रा द्रुपदराजस्य बलवन्तो जयैषिणः। द्रुपदस्य महावीर्यः पाण्डरोष्णीषकेतनः
पाण्डरव्यजनच्छत्रः पाण्डरध्वजवाहनः। स पुत्रगणमध्यस्थः शुशुभे राजसत्तमः
चन्द्रमा ज्योतिषां मध्ये पौर्णमास्यामिवोदितः। अथोद्धूतपताकाग्रमजिह्मगतिमव्ययम्
द्रुपदानीकमायान्तं कुरुसैन्यमभिद्रवत्। तयोरुभयतो जज्ञे तेषां तु तुमुलः स्वनः
बलयोः संप्रसरतोः सरितां स्रोतसोरिव। प्रकीर्णरथनागाश्वैस्तान्यनीकानि सर्वशः
ज्योतींषईव प्रकीर्णानि सर्वतः प्रचकाशिरे। उत्कृष्टभेरीनिनदे संप्रवृत्ते महारवे
अमर्षिता महात्मानः पाण्डवा निर्ययुस्ततः। रथांश्च मेघनिर्घोषान्युक्तान्परमवाजिभिः
धून्वन्तो ध्वजिनः शुभ्रानास्थाय भरतर्षभाः। ततः पाण्डुसुतान्दृष्ट्वा रथस्थानात्तकार्मुकान्
नृपाणामभवत्कम्पो वेपथुर्हृदयेषु च। निर्यातेष्वथ पार्थेषु द्रोपदं तद्बलं रणे
आविशत्परमो हर्षः प्रमोदश्च जयं प्रति। सुमुहूर्तं व्यतिकरः सैन्यानामभवद्भृशम्
ततो द्वन्द्वमयुध्यन्त मृत्युं कृत्वा पुरस्कृतम्। जघ्नतुः समरे तस्मिन्सुमित्रप्रियदर्शनौ
जयद्रथश्च कर्णश्च पश्यतः सव्यसाचिनः। अर्जुनः प्रेक्ष्य निहतौ सौमित्रप्रियदर्शनौ
जयद्रथसुतं तत्र जघान पितुरन्तिके। वृषसेनादवरजं सुदामानं धनंजयः
कर्णपुत्रं महेष्वासं रथनीडादपातयत्। तौ सुतौ निहतौ दृष्ट्वा राजसिंहौ तरस्विनौ
नामृष्येतां महाबाहू प्रहारमिव सद्गजौ। तौ जग्मतुरसंभ्रान्तौ फल्गुनस्य रथंप्रति
प्रतिमुक्ततलत्राणौ शपमानौ परस्परम्। सन्निपातस्तयोरासीदतिघोरो महामृधे
वृत्रशम्बरयोः सङ्क्ये वज्रिणेव महारणे। त्रीनश्वाञ्जघ्नतुस्तस्य फल्गुनस्य नर्षभौ
ततः किलिकिलाशब्दः कुरूणामभवत्तदा। तान्हयान्निहतान्दृष्ट्वा भीमसेनः प्रतापवान्
निमेषान्तरमात्रेण रथमश्वैरयोजयत्। उपयातं रथं दृष्ट्वा दुर्योधनपुरःसरौ
सौबलः सौमदत्तिश्च समेयातां परन्तपौ। तैः पञ्चभिरदीनात्मा भीमसेनो महाबलः
अयुध्यत तदा वीरैरिन्द्रियार्थैरिवेश्वरः। तैर्निरुद्धो न संत्रासं जगाम समितिंजयः
पञ्चभिर्द्विरदैर्मत्तैर्निरुद्ध इव केसरी। तस्यैते युगपत्पञ्च पञ्चभिर्निशितैः शरैः
सारथिं वाजिनश्चैव निन्युर्वैवस्वतक्षयम्। हताश्वात्स्यन्दनश्रेष्ठादवरुह्य महारथः
चचार विविधान्मार्गानसिमुद्यम्य पाण्डवः। अश्वस्कन्धेषु चक्रेषु युगेष्वीषासु चैव हि
व्यचरत्पातयञ्शत्रून्सुपर्ण इव भोगिनः। विधनुष्कं विकवचं विरथं च समीक्ष्य तम्
अभिपेतुर्नव्याघ्रा अर्जुनप्रमुखा रथाः। धृष्टद्युम्नः शिखण्डी च यमौ च युधि दुर्जयौ
तस्मिन्महारथे युद्धे प्रवृत्ते शरवृष्टिभिः। रथध्वजपताकाश्च सवर्मन्तरधीयत
तत्प्रवृत्तं चिरं कालं युद्धं सममिवाभवत्। रथेन तान्महाबाहुरर्जुनो व्यधमत्पुनः
तमापतन्तं दृष्ट्वेव महाबाहुर्धनुर्धरः। कर्णोऽस्त्रविदुषां श्रेष्ठो वारयामास सायकैः
स तेनाभिहतः पार्थो वासविर्वज्रसन्निभान्। त्रीञ्शरान्संदधे क्रुद्धो वधात्क्रुद्धस्य पाण्डवः