मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः। अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः
येषामर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ। श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम्
संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम्। गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि
गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम्। तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः
युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः। भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम्
दृढप्राकारनिर्यूहं शतघ्नीशतसंकुलम्। ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः। तदेतन्नरगर्भेण पाण्डरेण विराजते
सालेनानेकतालेन सर्वतः संवृतं पुरम्। अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः
दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये। प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः
उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः। तस्मात्संन्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः
स्वराष्ट्रमेव गच्छामो यद्याप्तं वचनं मम। एतन्मम मतं सर्वैः क्रियतां यदि रोचते। एतद्धि सुकृतं मन्ये क्षेमं चापि महीभिताम्
सौमदत्तेर्वचः श्रुत्वा कर्णो वैकर्तनो वृषा। उवाच वचनं काले कालज्ञः सर्वकर्मणाम्
नीतिपूर्वमिदं सर्वमुक्तं वचनमर्थवत्। वचनं नाभ्यसूयामि श्रूयतां यद्वचस्त्विति
द्वैधीभावो न गन्तव्यः सर्वकर्मसु मानवैः। द्विधाभूतेन मनसा अन्यत्कर्म न सिध्यति
संप्रयाणासनाभ्यां तु कर्शनेन तथैव च। नैतच्छक्यं पुरं हर्तुमाक्रन्दश्चाप्यशोभनः
अवमर्दनकालोऽत्र मतश्चिन्तयतो मम। यावन्नो वृष्णयः पार्ष्णिं न गृह्णन्तिरणप्रियाः
भवन्तश्च तथा हृष्टाः स्वबाहुबलशालिनः। प्राकारमवमृद्रन्तु परिघाः पूरयन्त्वपि
प्रस्रावयन्तु सलिलं क्रियतां विषमं समम्। तृणकाष्ठेन महता खातमस्य प्रपूर्यताम्
घुष्यतां राजमार्गेषु परेषां यो हनिष्यति। नागमश्वं पदातिं वा दानमानं स लप्स्यति
नागे दशसहस्राणि पञ्च चाश्वपदातिषु। रथे वै द्विगुणं नागाद्वसु दास्यन्ति पार्थिवाः
यश्च कामसुखे सक्तो बालश्च स्थविरश्च यः। अयुद्धमनसो ये च ते तु तिष्ठन्तु भीरवः
प्रदरश्च न दातव्यो न गन्तव्यमचोदितैः। यशो रक्षत भद्रं वो जेष्यामो वै रिपून्वयम्
अनुलोमाश्च नो वाताः सततं मृगपक्षिणः। अग्नयश्च विराजन्ते शस्त्राणि कवचानि च
ततः कर्णवचः श्रुत्वा धार्तराष्ट्रप्रियैषिणः। निर्ययुः पृथिवीपालाश्चालयन्तः परान्रणे
न हि तेषां मनःसक्तिरिन्द्रियार्थेषु सर्वशः। यथा परिरपुघ्नानां प्रसभं युद्ध एव च
वैकर्तनपुरोव्रातः सैन्धवोर्मिमहास्वनः। दुःशासनमहामत्स्यो दुर्योधनमहाग्रहः
स राजसागरो भीमो भीमघोषप्रदर्शनः। अभिदुद्राव वेगेन पुरं तदपसव्यतः
तदनीकमनाधृष्यं शस्त्राग्निव्यालदीपितम्। समुत्कम्पितमाज्ञाय चुक्रुशुर्द्रुपदात्मजाः
ते मेघसमनिर्घोषैर्बलिनः स्यन्दनोत्तमैः। निर्ययुर्नगरद्वारात्त्रासयन्तः परान्र
धृष्टद्युम्नः शिखण्डी च सुमित्रः प्रियदर्शनः। चित्रकेतुः सुकेतुश्च ध्वजकेतुश्च वीर्यवान्