अयं देशश्च कालश्च पाण्डवाहरणाय नः। न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ
यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम्। सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम
यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः। चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान्
एकीभावं गतो राज्ञा द्रुपदेन महात्मना। दुराधर्षतरा राजन्भविष्यन्ति न संशयः
यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः। तावदेव व्यवस्यामः पाण्डवानां वधं प्रति
मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव। पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम्
तेषामिहोपयातानामेषां तु चिरवासिनाम्। अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव
हनध्वं प्रगृहीतानि बलानि बलिनां वराः। यावन्नः कुरुसेनायां पतन्ति पतगा इव
तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम्। एतन्मम मतं चैव प्राप्तकालं नरर्षभ
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः। सोमदत्तिरिदं वाक्यं जगाद परमं ततः
प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च। तथा देशं च कालं च षड्विधान्स नयोद्गुणान्
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम्। प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम्
ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान्। बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान्
वपुषा हि तु भूतानां नेत्राणि हृदयानि च। श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम्
न तु केवलदैवेन प्रजा भावेन भेजिरे। यद्बभूव मनःकान्तं कर्मणा स चकार तत्
न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम्। भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती
तानेवंगुणसंपन्नान्संपन्नान्राजलक्षणैः। न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात्
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला। तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति
मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः। साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः
अमित्रांश्च ततो जेतुनं न रोषेणेति मे मतिः। परिक्रीय धनैः शत्रुं मित्राणि च बलानि च
मूलं च सुकृतं कृत्वा भुङ्क्ते भूमिं च पाण्डवः। अशक्यान्पाण्डवान्मन्ये देवैरपि सवासवैः
येषामर्थे सदा युक्तौ कृष्णसंकर्षणावुभौ। श्रेयश्च यदि मन्यद्वं मन्मतं यदि वा मतम्
संविदं पाण्डवैः सर्वैः कृत्वा याम यथागतम्। गोपुराट्टालकैरुच्चैरुपतल्पशतैरपि
गुप्तं पुरवरश्रेष्ठमेतदद्भिश्च संवृतम्। तृणधान्येन्धरसैस्तथा यन्त्रायुधौषधैः
युक्तं बहुकवाटैश्च द्रव्यागारसुवेदिकैः। भीमोच्छ्रितमहाचक्रं बृहदट्टालसंवृतम्
दृढप्राकारनिर्यूहं शतघ्नीशतसंकुलम्। ऐष्टको दारवो वप्रो मानुषश्चेति यः स्मृतः
प्राकारकर्तृभिर्वीरैर्नृगर्भस्तत्र पूजितः। तदेतन्नरगर्भेण पाण्डरेण विराजते
सालेनानेकतालेन सर्वतः संवृतं पुरम्। अनुरक्ताः प्रकृतयो द्रुपदस्य महात्मनः
दानमानार्जिताः सर्वे बाह्याभ्यन्तरगाश्च ये। प्रतिरुद्धानिमाञ्ज्ञात्वा राजभिर्भीमविक्रमैः
उपयास्यन्ति दाशार्हाः समुदग्रोच्छ्रितायुधाः। तस्मात्संन्धिं वयं कृत्वा धार्तराष्ट्रस्य पाण्डवैः