योऽसावत्यक्रमीद्युध्यन्युद्धे दुर्योधनं तथा। स राजा पाण्डवश्रेष्ठः पुण्यभाग्बुद्धिवर्धनः
दुर्योधनस्यावरजैर्यौ युध्येतां प्रतीपवत्। तौ यमौ वृत्तसंपन्नौ संपन्नबलविक्रमौ
ब्रह्मरूपधराञ्श्रुत्वा प्रशान्तान्पाण्डुनन्दनान्। कौन्तेयान्मनुजेन्द्राणां विस्मयः समजायत
पौरा हि सर्वे राजन्याः समपद्यन्त विस्मिताः।' सपुत्रा हि पुरा कुन्ती दग्धा जतुगृहे श्रुता
सर्वभूमिपतीनां च राष्ट्राणां च यशस्विनी।' पुनर्जातानिव च तांस्तेऽमन्यन्त नराधिपाः
धिगकुर्वंस्तदा भीष्मं धृतराष्ट्रं च कौरवम्। कर्मणाऽतिनृशंसेन पुरोचनकृतेन वै
धार्मिकान्वृत्तसंपन्नान्मातुः प्रियहिते रतान्। यदा तानीदृशान्पार्थानुत्सादयितुमिच्छति
ततः स्वयंवरे वृत्ते धार्तराष्ट्राश्च भारत। मन्त्रयन्ति ततः सर्वे कर्णसौबलदूषिताः
कश्चिच्छत्रुः कर्शनीयः पीडनीयस्तथाऽपरः। उत्सादनीयाः कौन्तेयाः सर्वक्षत्रस्य मे मताः
एवं पराजिताः सर्वे यदि यूयं गमिष्यथ। अकृत्वा संविदं कांचिन्मनस्तप्स्यत्यसंशयम्
अयं देशश्च कालश्च पाण्डवाहरणाय नः। न चेदेवं करिष्यध्वं लोके हास्या भविष्यथ
यमेते संश्रिता वस्तुं कामयन्ते च भूमिपम्। सोऽल्पवीर्यबलो राजा द्रुपदो वै मतो मम
यावदेतान्न जानन्ति जीवतो वृष्णिपुङ्गवाः। चैद्यश्च पुरुषव्याघ्रः शिशुपालः प्रतापवान्
एकीभावं गतो राज्ञा द्रुपदेन महात्मना। दुराधर्षतरा राजन्भविष्यन्ति न संशयः
यावच्चञ्चलतां सर्वे प्राप्नुवन्ति नराधिपाः। तावदेव व्यवस्यामः पाण्डवानां वधं प्रति
मुक्ता जतुगृहाद्भीमादाशीविषमुखादिव। पुनस्ते यदि मुच्यन्ते महन्नो भयमागतम्
तेषामिहोपयातानामेषां तु चिरवासिनाम्। अन्तरे दुष्करं स्थातुं गजयोर्महतोरिव
हनध्वं प्रगृहीतानि बलानि बलिनां वराः। यावन्नः कुरुसेनायां पतन्ति पतगा इव
तावत्सर्वाभिसारेण पुरमेतद्विहन्यताम्। एतन्मम मतं चैव प्राप्तकालं नरर्षभ
शकुनेर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः। सोमदत्तिरिदं वाक्यं जगाद परमं ततः
प्रकृतीः सप्त वै ज्ञात्वा आत्मनश्च परस्य च। तथा देशं च कालं च षड्विधान्स नयोद्गुणान्
स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम्। प्रसमीक्ष्याभियुञ्जीत परं व्यसनपीडितम्
ततोऽहं पाण्डवान्मन्ये मित्रकोशसमन्वितान्। बलस्थान्विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान्
वपुषा हि तु भूतानां नेत्राणि हृदयानि च। श्रोत्रं मधुरया वाचा रमयत्यर्जुनो नृणाम्
न तु केवलदैवेन प्रजा भावेन भेजिरे। यद्बभूव मनःकान्तं कर्मणा स चकार तत्
न ह्ययुक्तं न चासक्तं नानृतं न च विप्रियम्। भाषितं चारुभाषस्य जज्ञे पार्थस्य भारती
तानेवंगुणसंपन्नान्संपन्नान्राजलक्षणैः। न तान्पश्यामि ये शक्ताः समुच्छेत्तुं यथा बलात्
प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला। तथैवोत्साहशक्तिश्च पार्थेष्वप्यधितिष्ठति
मौलमित्रबलानां च कालज्ञो वै युधिष्टिरः। साम्ना दानेन भेदेन दण्डेनेति युधिष्ठिरः
अमित्रांश्च ततो जेतुनं न रोषेणेति मे मतिः। परिक्रीय धनैः शत्रुं मित्राणि च बलानि च