अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः
इदं च तत्राद्भुतरूपमुत्तमं जगाद देवर्षिरतीतमानुषम्। महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि
पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे। मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम्। शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम्
शतं गजानामपि पद्मिनां तथा शतं गिरिणामिव हेमशृङ्गिणाम्। तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम्
पृथक्पृथग्दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम्। तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः
कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम्। विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह। न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः। नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला। कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः
रूपलक्षणसंपन्नां शीलाचारसमन्विताम्। द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ। रोहिणी च यथा सोमे दमयन्ती यथा नले
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती। यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता। सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता
अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून्। पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च। अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः। कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ
पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते। तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं
यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम्। तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः। वैदूर्यमणिचित्राणि हैमान्याभरणानि च
वासांसि च महार्हाणि नानादेश्यानि माधवः। कम्बलाजिनरत्नानि स्पर्शवन्ति शुभानि च
शयनासनयानानि विविधानि महान्ति च। वैदूर्यवज्रचित्राणि शतशो भाजनानि च
रूपयौवनदाक्षिण्यैरुपेताश्च स्वलङ्कृताः। प्रेष्याः संप्रददौ कृष्णो नानादेश्याः स्वलङ्कृताः
गजान्विनीतान्भद्रांश्च सदश्वांश्च स्वलङ्कृतान्। रथांश्च दान्तान्सौवर्णैः शुभ्रैः पट्टैरलङ्कृतान्
कोटिशश्च सुवर्णं च तेषामकृतकं तथा। वीथीकृतममेयात्मा प्राहिणोन्मधुसूदनः
तत्सर्वं प्रतिजग्राह धर्मराजो युधिष्ठिरः। मुदा परमया युक्तो गोविन्दप्रियकाम्यया
ततो राज्ञां चैरराप्तैः प्रवृत्तिरुपनीयत। पाण्डवैरुपसंपन्ना द्रौपदी पतिभिः शुभा
येन तद्धनुरादाय लक्ष्यं विद्धं महात्मना। सोऽर्जुनो जयतां श्रेष्ठो महाबाणधनुर्धरः
यः शल्यं मद्रराजं वै प्रोत्क्षिप्यापातयद्बली। त्रासयामास संक्रुद्धो वृक्षेण पुरुषान्रणे
न चास्य संभ्रमः कश्चिदासीत्तत्र महात्मनः। स भीमो भीमसंस्पर्शः शत्रुसेनाङ्गपातनः