ततोऽस्य वेश्माग्र्यजनोपशोभितं विस्तीर्णपद्मोत्पलभूषिताजिरम्। बलौघरत्नौघविचित्रमाबभौ नभो यथा निर्मलतारकान्वितम्
ततस्तु ते कौरवराजपुत्रा विभूषिताः कुण्डलिनो युवानः। महार्हवस्त्राम्बरचन्दनोक्षिताः कृताभिषेकाः कृतमङ्गलक्रियाः
पुरोहितेनाग्निसमानवर्चसा सहैव धौम्येन यताविधि प्रभो। क्रमेण सर्वे विविशुस्ततः सदो महर्षभा गोष्ठमिवाभिनन्दिनः
ततः समाधाय स वेदपरागो जुहाव मन्त्रैर्ज्वलितं हुताशनम्। युधिष्ठिरं चाप्युपनीय मन्त्रवि- न्नियोजयामास सहैव कृष्णया
प्रदक्षिणं तौ प्रगृहीतपाणी समानयामास स वेदपरागः। `विप्रांश्च संतर्प्य युधिष्ठिरो धनै- र्गोभिश्च रत्नैर्विविधैश्च पूर्वम्
तदा स राजा द्रुपदस्य पुत्रिका- पाणिं प्रजग्राह हुताशनाग्रतः। धौम्येन मन्त्रैर्विधिवद्भुतेऽग्नौ सहाग्निकल्पैर्ऋषिभिः समेत्य
ततोऽन्तरिक्षात्कुसुमानि पेतु- र्ववौ च वायुः सुमनोज्ञगन्धः। ततोऽभ्यनुज्ञाप्य समाजशोभितं युधिष्ठिरं राजपुरोहितस्तदा
विप्रांश्च सर्वान्सुहृदश्च राज्ञः समेत्य राजानमदीनसत्वम्। जगाद भूयोऽपि महानुभावो वचोऽर्थयुक्तं मनुजेश्वरं तम्
गृह्णन्त्वथान्ये नरदेवकन्या- पाणिं यथावन्नरदेवपुत्राः। तमभ्यनन्दद्द्रुपदस्तथा द्विजं तथा कुरुष्वेति तमादिदेश
पुरोहितस्यानुमतेन राज्ञ- स्ते राजपुत्रा मुदिता बभूवुः। क्रमेण चान्ये च नराधिपात्मजा वरस्त्रियास्ते जगृहुः करं तदा
अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धनाः
इदं च तत्राद्भुतरूपमुत्तमं जगाद देवर्षिरतीतमानुषम्। महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि
पतिश्वशुरता ज्येष्ठे पतिदेवरताऽनुजे। मध्यमेषु च पाञ्चाल्यास्त्रितयं त्रितयं त्रिषु
कृते विवाहे द्रुपदो धनं ददौ महारथेभ्यो बहुरूपमुत्तमम्। शतं रथानां वरहेममालिनां चतुर्युजां हेमखलीनमालिनाम्
शतं गजानामपि पद्मिनां तथा शतं गिरिणामिव हेमशृङ्गिणाम्। तथैव दासीशतमग्र्ययौवनं महार्हवेषाभरणाम्बरस्रजम्
पृथक्पृथग्दिव्यदृशां पुनर्ददौ तदा धनं सौमकिरग्निसाक्षिकम्। तथैव वस्त्राणि विभूषणानि प्रभावयुक्तानि महानुभावः
कृते विवाहे च ततस्तु पाण्डवाः प्रभूतरत्नामुपलभ्य तां श्रियम्। विजह्रुरिन्द्रप्रतिमा महाबलाः पुरे तु पाञ्चालनृपस्य तस्य ह
पाण्डवैः सह संयोगं गतस्य द्रुपदस्य ह। न बभूव भयं किंचिद्देवेभ्योऽपि कथंचन
कुन्तीमासाद्य ता नार्यो द्रुपदस्य महात्मनः। नाम संकीर्तयन्त्योऽस्या जग्मुः पादौ स्वमूर्धभिः
कृष्णा च क्षौमसंवीता कृतकौतुकमङ्गला। कृताभिवादना श्वश्र्वास्तस्थौ प्रह्वा कृताञ्जलिः
रूपलक्षणसंपन्नां शीलाचारसमन्विताम्। द्रौपदीमवदत्प्रेम्णा पृथाशीर्वचनं स्नुषाम्
यथेन्द्राणी हरिहये स्वाहा चैव विभावसौ। रोहिणी च यथा सोमे दमयन्ती यथा नले
यथा वैश्रवणे भद्रा वसिष्ठे चाप्यरुन्धती। यथा नारायणे लक्ष्मीस्तथा त्वं भव भर्तृषु
जीवसूर्वीरसूर्भद्रे बहुसौख्यसमन्विता। सुभगा भोगसंपन्ना यज्ञपत्नी पतिव्रता
अतिथीनागतान्साधून्वृद्दान्बालांस्तथा गुरून्। पूजयन्त्या यथान्यायं शश्वद्गच्छन्तु ते समाः
कुरुजाङ्गलमुख्येषु राष्ट्रेषु नगरेषु च। अनु त्वमभिषिच्यस्व नृपतिं धर्मवत्सला
पतिभिर्निर्जितामुर्वीं विक्रमेण महाबलैः। कुरु ब्राह्मणसात्सर्वामश्वमेधे महाक्रतौ
पृथिव्यां यानि रत्नानि गुणवन्ति गुणान्विते। तान्याप्नुहि त्वं कल्याणि सुखिनी शरदां शतं
यथा च त्वाऽभिनन्दामि वध्वद्य क्षौमसंवृताम्। तथा भूयोऽभिनन्दिष्ये जातपुत्रां गुणान्वितां
ततस्तु कृतदारेभ्यः पाण्डुभ्यः प्राहिणोद्धरिः। वैदूर्यमणिचित्राणि हैमान्याभरणानि च