यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः। बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः
तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा। भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत। तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि। यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम
साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः। तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता। तथैव द्रुपदैषा ते सुता वै देवरूपिणी। पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता
आसीत्तपोवंने काचिदृषेः कन्या महात्मनः। नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती
तोषयामास तपसा सा किलोग्रेण शङ्करम्। तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्
सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम्। पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः। पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः
सा प्रसादयती देवमिदं भूयोऽभ्यभाषत। एकं पतिं गुणोपेतं त्वत्तोऽर्हामीति शङ्कर
तां देवदेवः प्रीतात्मा पुनः प्राह शुभं वचः। पञ्चकृत्वस्त्वयोक्तोऽहं पतिं देहीति वै पुनः
तत्तथा भविता भद्रे वचस्तद्भद्रमस्तु ते। देहमन्यं गतायास्ते सर्वमेतद्भविष्यति
द्रुपदैषा हि सा जज्ञे सुता वै देवरूपिणी। पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता
सैव नालायनी भूत्वा रूपेणाप्रतिमा भुवि। मौद्गल्यं पतिमास्थाय शिवाद्वरमभीप्सती
एतद्देवरहस्यं ते श्रावितं राजसत्तम। नाख्यातव्यं कस्यचिद्वै देवगुह्यमिदं यतः
स्वर्गश्रीः पाण्डवार्थं तु समुत्पन्ना महामखे। सेह तप्त्वा तपो घोरं दुहितृत्वं तवागता
सैषा देवी रुचिरा देवजुष्टा पञ्चानामेका स्वकृतेनेह कर्मणा। सृष्टा स्वयं देवपत्नी स्वयंभुवा श्रुत्वा राजन्द्रुपदेष्टं कुरुष्व
अश्रुत्वैवं वचनं ते महर्षे मया पूर्वं यतितं संविधातुम्। न वै शक्यं विहितस्यापयानं तदेवेदमुपपन्नं विधानम्
दिष्टस्य ग्रन्थिरनिवर्तनीयः स्वकर्मणा विहितं तेन किंचित्। कृतं निमित्तमिह नैकहेतो- स्तदेवेदमुपन्नं विधानम्
यथैव कृष्णोक्तवती पुरस्ता- न्नैकान्पतीन्मे भगवान्ददातु। स चाप्येवं वरमित्यब्रवीत्तां देवो हि वेत्ता परमं यदत्र
यदि चैवं विहितः शङ्करेण धर्मोऽधर्मो वा नात्र ममापराधः। गृह्णन्त्विमे विधितत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा
नायं विधिर्मानुषाणां विवाहे देवा ह्येते द्रौपदी चापि लक्ष्मीः। प्राक्कर्मणः सुकृतात्पाण्डवानां पञ्चानां भार्या देवदेवप्रसादात्
तेषामेवायं विहितः स्याद्विवाहो यथा ह्येष द्रौपदीपाण्डवानाम्। अन्येषां नृणां योषितां च न धर्मः स्यान्मानवोक्तो नरेन्द्र
तत आजग्मतुस्तत्र तौ व्यासद्रुपदावुभौ। कुन्ती सपुत्रा यत्रास्ते धृष्टद्युम्नश्च पार्षतः। ततो द्वैपायनः कृष्णो युधिष्ठिरमथागमत्
ततोऽब्रवीद्भगवान्धर्मराज- मद्यैव पुण्येऽहनि पाण्डवेय। पुण्ये पुष्ये योगमुपैति चन्द्रमाः पाणिं कृष्णायास्त्वं गृहाणाद्य पूर्वं
एवमुक्त्वा धर्मराजं भीमादीनप्यभाषत
क्रमेण पुरुषव्याघ्राः पाणिं गृह्णन्तु पाणिभिः। एवमेव मया सर्वं दृष्टमेतत्पुराऽनघाः
ततो राजा यज्ञसेनः सपुत्रो जन्यार्थणुक्तं बहु तत्तदग्र्यम्। 'समर्थयामास महानुभावो हृष्टः सपुत्रः सहबन्धुवर्गः।' समानयामास सुतां च कृष्णा- माप्लाव्य रत्नैर्बहुभिर्विभूष्य
ततस्तु सर्वे सुहृदो नृपस्य समाजग्मुः सहिता मन्त्रिणश्च। द्रष्टुं विवाहं परमप्रतीता द्विजाश्च पौराश्च यथाप्रधानाः