तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम्। तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु
तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम्। अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपम्
शुक्लमेकमपरं चापि कृष्णम्
केशो योऽसौ वर्णतः कृष्ण उक्तः
ये ते पूर्वं शक्ररूपा निबद्धा- स्तस्यां दर्यां पर्वतस्योत्तरस्य। इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची
एवमेते पाण्डवाः संबभूवु- र्ये ते राजन्पूर्वमिन्द्रा बभूवुः। लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा
कथं हि स्त्री कर्मणा ते महीतला- त्समुत्तिष्ठेदन्यतो दैवयोगात्। यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः कोशमात्रात्प्रवाति
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च। दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्
ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः। चक्षुर्दिव्यं प्रददौ तांश्च सर्वान् राजाऽपश्यत्पूर्वदेहैर्यथावत्
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान्। बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श
दिव्यैर्वस्त्रैरजोभिः सुगन्धै- र्माल्यैश्चाग्र्यैः शोभमानानतीव। साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा- नादित्यान्वा सर्वगुणोपपन्नान्
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा- त्र्शक्रात्मजं चेन्द्ररूपं निशम्य। प्रीतो राजा द्रुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम्
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात्सोमवह्निप्रकाशाम्। योग्यां तेषां रूपतेजोयशोभिः पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः
स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य। नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम्
इदं चापि पुरावृत्तं तन्निबोध च भूमिम। कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः। तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः
साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान्। तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः। अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः
एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे। अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान्
वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता। उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा
यस्या नैतन्तवाः पञ्च पतयः क्षत्रियर्षभाः। बभूवुः पृथिवीपालाः सर्वैः समुदिता गुणैः
तेषामेकाभवद्भार्या राज्ञामौशीनरी शुभा। भौमाश्वी नाम भद्रं ते तथारूपगुणान्विता
पञ्चभ्यः पञ्चधा पञ्च दायादान्सा व्यजायत। तेभ्यो नैतन्तवेभ्यस्तु राजशार्दूल वै तदा
पृथगाख्याऽभवत्तेषां भ्रातॄणां पञ्चधा भुवि। यथावत्कीर्त्यमानांस्ताञ्छृणु मे राजसत्तम
साल्वेयाः शूरसेनाश्च श्रुतसेनाश्च पार्थिवाः। तिन्दुसारातिसाराश्च वंशा एषां नृपोत्तम
एवमेकाऽभवद्भार्या भौमाश्वी भुवि विश्रुता। तथैव द्रुपदैषा ते सुता वै देवरूपिणी। पञ्चानां विहिता पत्नी कृष्णा पार्षत्यनिन्दिता
आसीत्तपोवंने काचिदृषेः कन्या महात्मनः। नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती
तोषयामास तपसा सा किलोग्रेण शङ्करम्। तामुवाचेश्वरः प्रीतो वृणु काममिति स्वयम्
सैवमुक्ताऽब्रवीत्कन्या देवं वरदमीश्वरम्। पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः
ददौ तस्यै स देवेशस्तं वरं प्रीतमानसः। पञ्च ते पतयो भद्रे भविष्यन्तीति शङ्करः