स तद्विवृत्य विवरं महागिरे- स्तुल्यद्युतींश्चतुरोऽन्यान्ददर्श। स तानभिप्रेक्ष्य बभूव दुःखितः कच्चिन्नाहं भविता वै यथेमे
ततो देवो गिरिशो वज्रपाणिं विवृत्य नेत्रे कुपितोऽभ्युवाच। दरीमेतां प्रविश त्वं शतक्रतो यन्मां बाल्यादवमंस्थाः पुरस्तात्
उक्तस्त्वेवं विभुना देवराजः प्रावेपताऽऽर्तो भृशमेवाभिषङ्गात्। स्रस्तैरङ्गैरनिलेनेव नुन्न- मश्वत्थपत्रं गिरिराजमूर्ध्नि
स प्राञ्जलिर्वै वृषवाहनेन प्रवेपमानः सहसैवमुक्तः। उवाच देवं बहुरूपमुग्र- मद्याशेषस्य भुवनस्य त्वं भवाद्यः
तमब्रवीदुग्रवर्चाः प्रहस्य नैवंशीलाः शेषमिहाप्नुवन्ति। एतेऽप्येवं भवितारः पुरस्ता- त्तस्मादेतां दरीमाविश्य शेष्य
एषा भार्या भविता वो न संशयो योनिं सर्वे मानुषीमाविशध्वम्। तत्र यूयं कर्म कृत्वाऽविषह्यं बहूनन्यान्निधनं प्रापयित्वा
कर्तव्यमन्यद्विविधार्थयुक्तम्
गमिष्यामो मानुषं देवलोका- द्दुराधरो विहितो यत्र मोक्षः। देवास्त्वस्मानादधीरञ्जनन्यां धर्मो वायुर्मघवानश्विनौ च
एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह। वीर्येणाहं पुरुषं कार्यहेतो- र्दद्यामेषां पञ्चमं मत्प्रसूतम्
विश्वभुग्भूतधामा च शिबिरिन्द्रः प्रतापवान्। शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः
तेषां कामं भगवानुग्रधन्वा प्रादादिष्टं सन्निसर्गाद्यथोक्तम्। तां चाप्येषां योषितं लोककान्तां श्रियं भार्यां व्यदधान्मानुषेषु
तैरेव सार्धं तु ततः स देवो जगाम नारायणमप्रमेयम्। अनन्तमव्यक्तमजं पुराणं सनातनं विश्वमनन्तरूपम्
शुक्लमेकमपरं चापि कृष्णम्
केशो योऽसौ वर्णतः कृष्ण उक्तः
ये ते पूर्वं शक्ररूपा निबद्धा- स्तस्यां दर्यां पर्वतस्योत्तरस्य। इहैव ते पाण्डवा वीर्यवन्तः शक्रस्यांशः पाण्डवः सव्यसाची
एवमेते पाण्डवाः संबभूवु- र्ये ते राजन्पूर्वमिन्द्रा बभूवुः। लक्ष्मीश्चैषां पूर्वमेवोपदिष्टा भार्या यैषा द्रौपदी दिव्यरूपा
कथं हि स्त्री कर्मणा ते महीतला- त्समुत्तिष्ठेदन्यतो दैवयोगात्। यस्या रूपं सोमसूर्यप्रकाशं गन्धश्चास्याः कोशमात्रात्प्रवाति
इदं चान्यत्प्रीतिपूर्वं नरेन्द्र ददानि ते वरमत्यद्भुतं च। दिव्यं चक्षुः पश्य कुन्तीसुतांस्त्वं पुण्यैर्दिव्यैः पूर्वदेहैरुपेतान्
ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः। चक्षुर्दिव्यं प्रददौ तांश्च सर्वान् राजाऽपश्यत्पूर्वदेहैर्यथावत्
ततो दिव्यान्हेमकिरीटमालिनः शक्रप्रख्यान्पावकादित्यवर्णान्। बद्धापीडांश्चारुरूपांश्च यूनो व्यूढोरस्कांस्तालमात्रान्ददर्श
दिव्यैर्वस्त्रैरजोभिः सुगन्धै- र्माल्यैश्चाग्र्यैः शोभमानानतीव। साक्षात्त्र्यक्षान्वा वसूंश्चापि रुद्रा- नादित्यान्वा सर्वगुणोपपन्नान्
तान्पूर्वेन्द्रानभिवीक्ष्याभिरूपा- त्र्शक्रात्मजं चेन्द्ररूपं निशम्य। प्रीतो राजा द्रुपदो विस्मितश्च दिव्यां मायां तामवेक्ष्याप्रमेयाम्
तां चैवाग्र्यां स्त्रियमतिरूपयुक्तां दिव्यां साक्षात्सोमवह्निप्रकाशाम्। योग्यां तेषां रूपतेजोयशोभिः पत्नी मत्वा हृष्टवान्पार्थिवेन्द्रः
स तद्दृष्ट्वा महदाश्चर्यरूपं जग्राह पादौ सत्यवत्याः सुतस्य। नैतच्चित्रं परमर्षे त्वयीति प्रसन्नचेताः स उवाच चैनम्
इदं चापि पुरावृत्तं तन्निबोध च भूमिम। कीर्त्यमानं नृपर्षीणां पूर्वेषां दारकर्मणि
नितन्तुर्नाम राजर्षिर्बभूव भुवि विश्रुतः। तस्य पुत्रा महेष्वासा बभूवुः पञ्च भूमिताः
साल्वेयः शूरसेनश्च श्रुतसेनश्च वीर्यवान्। तिन्दुसारोऽतिसारश्च क्षत्रियाः क्रतुयाजिनः
नातिचक्रमुरन्योन्यमन्योन्यस्य प्रियंवदाः। अनीर्ष्यवो धर्मविदः सौम्याश्चैव प्रियकराः
एतान्नैतन्तवान्पञ्च शिबिपुत्री स्वयंवरे। अवाप स्वपतीन्वीरान्भौमाश्वी मनुजाधिपान्
वीणेव मधुरारावा गान्धर्वस्वरमूर्च्छिता। उत्तमा सर्वनारीणां भौमाश्वी ह्यभवत्तदा