नापराध्यामि ते किंचिदहमद्य तपोधन। संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घोर आत्मनोरग वै कृतः
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत। ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे
अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान्। डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि
एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान्। डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि
इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा। नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम्
उवाच चैनं भगवान्रुरुः संशमयन्निव। केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्। सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम। कियन्तं चैव कालं ते वपुरेतद्भविष्यसि
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः। भृशं संशितवाक्तात तपोबलसमन्वितः
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम्। अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः। नर्दहन्निव कोपेन सत्यवाक्संशितव्रतः
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया। तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि
तस्याहं तपसो वीर्यं जानन्नासं तपोधन। भृशमुद्विग्नहृदयस्तमवोचमहं तदा
प्रणतः संभ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः। सखेति हसतेदं ते नर्मार्थं वै कृतं मया
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम्। सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः। नानृतं वै मया प्रोक्तं भवितेदं कथंचन
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन। श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः। तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव। `एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान्
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च। स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्
स डौण्डुभं परित्यज्य रूपं विप्रर्षभस्तदा। स्वरूपं भास्वरं भूयः प्रतिपेदे महायशाः
इदं चोवाच वचनं रुरुमप्रतिमौजसम्। अहिंसा परमो धर्मः सर्वप्राणभृतां वर
तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित्। ब्राह्मणः सौम्य एवेह भवतीति परा श्रुतिः
वेदवेदाङ्गविन्नाम सर्वभूताभयप्रदः। अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम्
ब्राह्मणस्य परो धर्मो वेदानां धारणापि च। क्षत्रियस्य हि यो धर्मः स नेहेष्येत वै तव
दण्डधारणमुग्रत्वं प्रजानां परिपालनम्। तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो
जनमेजयस्य यज्ञेऽस्मिन्सर्पाणां हिंसनं पुरा। परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि
तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात्। आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम
कथं हिंसितवान्सर्पान्स राजा जनमेजयः। सर्पा वा हिंसितास्तत्र किमर्थं द्विजसत्तम
किमर्थं मोक्षिताश्चैव पन्नगास्तेन धीमता। आस्तीकेन द्विजश्रेष्ठ श्रोतुमिच्छाम्यशेषतः