स्त्रीधर्मः पूर्वमेवायं निर्मितो मुनिभिः सदा। सहधर्मचरी भर्तुरेका एकस्य चोच्यते
एको हि भर्ता नारीणां कौमार इति लौकिकः। आपत्सु च नियोगेन भर्तुर्नार्याः परः स्मृतः
गच्छेत न तृतीयं तु तस्या निष्कृतिरुच्यते। चतुर्थे पतिता नारी पञ्चमे वर्धकी भवेत्
एवं गते धर्मपथे न वृणे बहुपुंस्कताम्। अलोकाचरितात्त्समात्कथं मुच्येय सङ्करात्
अनावृताः पुरा नार्यो ह्यासञ्शुध्यन्ति चार्तवे। सकृदुक्तं त्वया नैतन्नाधर्मस्ते भविष्यति
यदि मे पतयः पञ्च रतिमिच्छामि तैर्मिथः। कौमारं च भवेत्सर्वैः संगमे संगमे च मे
पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा। भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत्
रतिश्च भद्रे सिद्धिश्च न भजेते परस्परम्। भोगानाप्स्यसि सिद्धिं च योगेन च महत्त्वताम्
अन्यदेहान्तरे चैव रूपभाग्यगुणान्विता। पञ्चभिः प्राप्य कौमारं महाभागा भविष्यसि
गच्छ गङ्गाजलस्था च नरं पश्यसि यं शुभे। तमानय ममाभ्याशं सुरराजं शुचिस्मिते
इत्युक्ता विश्वरूपेण रुद्रं कृत्वा प्रदक्षिणम्। जगाम गङ्गामुद्दिश्य पुण्यां त्रिपथगां नदीम्
पुरा वै नैमिशारण्ये देवाः सत्रमुपासते। तत्र वैवस्वतो राजञ्शामित्रमकरोत्तदा
ततो यमो दीक्षितस्तत्र राज- न्नामारयत्कंचिदपि प्रजानाम्। ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणप्रहीणाः
सोमश्च शक्रो वरुणः कुबेरः साध्या रुद्रा वसवोऽथाश्विनौ च। प्रजापतिर्भुवनस्य प्रणेता समाजग्मुस्तत्र देवास्तथाऽन्ये
ततोऽब्रुवँल्लोकगुरुं समेता भयात्तीव्रान्मानुषाणां विवृद्ध्या। तस्माद्भयादुद्विजन्तः सुखेप्सवः प्रयाम सर्वे शरणं भवन्तम्
किं वो भयं मानुषेभ्यो यूयं सर्वे यदाऽमराः। मा वो मर्त्यसकाशाद्वै भयं भवितुमर्हति
मर्त्या अमर्त्याः संवृत्ता न विशेषोऽस्ति कश्चन। अविशेषादुद्विजन्तो विशेषार्थमिहागताः
वैवस्वतो व्यापृतः सत्रहेतो- स्तेन त्विमे न म्रियन्ते मनुष्याः। तस्मिन्नेकाग्रे कृतसर्वकार्ये तत एषां भवितैवान्तकालः
वैवस्वतस्यैव तनुर्विभक्ता वीर्येण युष्माकमुत प्रवृद्धा। सैषामन्तो भविता ह्यन्तकाले न तत्र वीर्यं भविता नरेषु
ततस्तु ते पूर्वजदेववाक्यं श्रुत्वा जग्मुर्यत्र देवा यजन्ते। समासीनास्ते समेता महाबला भागीरथ्यां ददृशुः पुण्डरीकम्
दृष्ट्वा च तद्विस्मितास्ते बभूवु- स्तेषामिन्द्रस्तत्र शूरो जगाम। सोऽपश्यद्योषामथ पावकप्रभां यत्र देवी गङ्गा सततं प्रसूता
सा तत्र योषा रुदती जलार्थिनी गङ्गां देवीं व्यवगाह्य व्यतिष्ठत्। तस्याश्रुबिन्दुः पतितो जले य- स्तत्पद्ममासीदथ तत्र काञ्चनम्
तदद्भुतं प्रेक्ष्य वज्री तदानी- मपृच्छत्तां योषितमन्तिकाद्वै। का त्वं भद्रे रोदिषि कस्य हेतो- र्वाक्यं तथ्यं कामयेऽहं ब्रवीहि
त्वं वेत्स्यसे मामिह याऽस्मि शक्र यदर्थं चाहं रोदिमि मन्दभाग्या। आगच्छ राजन्पुरतो गमिष्ये द्रष्टाऽसि तद्रोदिमि यत्कृतेऽहम्
तां गच्छन्तीमन्वगच्छत्तदानीं सोऽपश्यदारात्तरुणं दर्शनीयम्। सिद्धासनस्थं युवतीसहायं क्रीडन्तमक्षैर्गिरिराजमूर्ध्नि
तमब्रवीद्देवराजो ममेदं त्वं विद्धि विद्वन्भुवनं वशे स्थितम्। ईशोऽहस्मीति समन्युरब्रवी- द्दृष्ट्वा तमक्षैः सुभृशं प्रमत्तम्
क्रुद्धं च शक्रं प्रसमीक्ष्य देवो जहाय शक्रं च शैरुदैक्षत। संस्तम्भितोऽभूदथ देवराज- स्तेनेक्षितः स्थाणुरिवावतस्थे
यदा तु पर्याप्तमिहास्य क्रीडया तदा देवीं रुदतीं तामुवाच। आनीयतामेष यतोऽहमारा- न्नैनं दर्पः पुनरप्याविशेत
ततः शक्रः स्पृष्टमात्रस्तया तु स्रस्तैरङ्गैः पतितोऽभूद्धरण्याम्। तमब्रवीद्भगवानुग्रतेजा मैवं पुनः शक्र कृथाः कथंचित्
निवर्तयैनं च महाद्रिराजं बलं च वीर्यं च तवाप्रमेयम्। छिद्रस्य चैवाविश मध्यमस्य यत्रासते त्वद्विधाः सूर्यभासः