महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया। सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः
पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत्। आकाशगङ्गामाप्लुत्य तया सह तपोधनः
रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः। गिरिरूपधरो योगी स महर्षिस्तदा पुनः
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी। यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः
लतात्वमनुसंपेदे तमेवाभ्यनुवेष्टती। पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः
सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह। ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः। विरराम च सा चैव दैवयोगेन भामिनी
स च तां तपसा देवीं रमयामास योगतः। एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी
अरुन्धतीव सीतेव बभूवातिपतिव्रता। दमयन्त्याश्च मातुः स विशेषमधिकं ययौ
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा। सा वै नालायनी जज्ञे दैवयोगेन केनचित्
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा। तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे
ब्रूहि तत्कारणं येन ब्रह्मन्नालायनी शुभा। जाता ममाध्वरे कृष्मा सर्ववेदविदां वर
शृणु राजन्यथा ह्यस्या दत्तो रुद्रेण वै वरः। यदर्थं चैव संभूता तव गेहे यशस्विनी
हन्त त कथयिष्यामि कृष्मायाः पौर्वदेहिकम्। इन्द्रसेनेति विख्याता पुरा नालायनी शुभा
मौद्गल्यस्य पतिमासाद्य चचार विगतज्वरा। मौद्गल्यस्य महर्षेश्च रममाणस्य वै तया
संवत्सरगणा राजन्व्यतीयुः क्षणवत्तदा। ततः कदाचिद्धर्मात्मा तृप्तः कामैर्व्यरज्यत
अन्विच्छन्परमं धर्मं ब्रह्मयोगपरोऽभवत्। उत्ससर्ज स तां विप्रः सा तदा चापतद्भुवि। मौद्गल्यो राजशार्दूल तपोभिर्भावितः सदा
प्रसीद भगवन्मह्यं न मामुत्स्रष्टुमर्हसि। अवितृप्तास्मि ब्रह्मर्षे कामानां कामसेवनात्
यस्मात्त्वं मामनिःशङ्का ह्यवक्तव्यं भाषसे। आचरन्ती तपोविघ्नं तस्माच्छृणु वचो मम
भविष्यसि नृलोके त्वं राजपुत्री यशस्वि। पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः
भवितारस्तत्र तव पतयः पञ्च विप्लुताः। तैः सार्धं मधुराकारैश्चिरं रतिमवाप्स्यसि
सैवं शप्ता तु विमना वनं प्रागाद्यशस्विनी। भोगैरतृप्ता देवेशं तपसाऽऽराधयत्तदा
निराशीर्मारुताहारा निराहारा तथैव च। अनुवर्तमाना त्वादित्यं तथा पञ्चतपाभवत्
तीव्रेण तपसा तस्यास्तुष्टः पशुपतिः स्वयम्। वचं प्रादात्तदा रुद्रः सर्वलोकेश्वरः प्रभुः
भविष्यति परं जन्म भविष्यति वराङ्गना। भविष्यन्ति परं भद्रे पतयः पञ्च विश्रुताः
महेन्द्रवपुषः सर्वे महेन्द्रसमविक्रमाः। तत्रस्था च महत्कर्म सुराणां त्वं करिष्यसि
एकः खलु मया भर्ता वृतः पञ्च त्विमे कथम्। एको भवति नैकस्या बहवस्तद्ब्रवीहि मे
पञ्चकृत्वस्त्वया चोक्तः पतिं देहीत्यहं पुनः। पञ्चते पतयो भद्रे भविष्यन्ति सुखावहाः
धर्म एकः पतिः स्त्रीणां पूर्वमे प्रकल्पितः। बहुपत्नीकता पुंसो धर्मश्च बहुभिः कृतः