न तु धर्मस्य सूक्ष्मत्वाद्गतिं विद्मः कथंचन। अधर्मो धर्म इति वा व्यवसायो न शक्यते
कर्तुमस्मद्विधैर्ब्रह्मंस्ततोऽयं न व्यवस्यते। पञ्चानां महिषी कृष्णा भवत्विति कथंचन
न मे वागनृतं प्राह नाधर्मे धीयते मतिः। वर्तते हि मनो मेऽत्र नैषोऽधर्मः कथंचन
श्रूयते हि पुराणेऽपि जटिला नाम गौतमी। ऋषीनध्यासितवती सप्त धर्मभृतां वरा
तथैव मुनिजा वार्क्षी तपोभिर्भावितात्मनः। संगताभूद्दश भ्रातॄनकेन्म्नः प्रचेतसः
गुरोर्हि वचनं प्राहुर्धर्म्यं धर्मज्ञसत्तम। गुरूणां चैव सर्वेषां माता परमको गुरुः
सा चाप्युक्तवती वाचं भैक्षवद्भुज्यतामिति। तस्मादेतदहं मन्ये परं धर्मं द्विजोत्तम
एतमेतद्यथा प्राह धर्मचारी युधिष्ठिरः। भुज्यतां भ्रातृभिः सार्धमित्यर्जुनमचोदयम्। अनृतान्मे भयं तीव्रं मुच्येऽहमनृतात्कथम्
अनृतान्मोक्ष्यसे भद्रे धर्मश्चैव सनातनः। ननु वक्ष्यामि सर्वेषां पाञ्चाल शृमु मे स्वयम्
यथाऽयं विहितो धर्मो यतश्चायं सनातनः। यथा च प्राह कौन्तेयस्तथा धर्मो न संशयः
तत उत्थाय भगवान्व्यासो द्वैपायनः प्रभुः। करे गृहीत्वा राजानं राजवेश्म समाविशत्
पाण्डवाश्चापि कुन्ती च धृष्टद्युम्नश्च पार्षतः। विविशुस्तेऽपि तत्रैव प्रतीक्षन्ते स्म तावुभौ
ततो द्वैपायनस्त्समै नरेन्द्राय महात्मने। आचख्यौ तद्यथा धर्मो बहूनामेकपत्निता
यथा च ते ददुश्चैव राजपुत्र्याः पुरा वरम्। धर्माद्यास्तपसा तुष्टाः पञ्चपत्नीत्वमीश्वराः
मा भूद्राजंस्तव तापो मनस्थः पञ्चानां भार्या दुहिता ममेति। मातुरेषा प्रार्थिता स्यात्तदानीं पञ्चानां भार्या दुहिता ममेति
याजोपयाजौ धर्मरतौ तपोभ्यां तौ चक्रतुः पञ्चपतित्वमस्याः। तत्पञ्चभिः पाण्डुसुतैरवाप्ता भार्या कृष्णा मोदतां वै कुलं ते
लोके नान्यो विद्यते त्वद्विशिष्टः सर्वारीणामप्रधृष्योऽसि राजन्। भूयस्त्विदं शृणु मे त्वं विशोको यथाऽऽगतं पञ्चपत्नीत्वमस्याः
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम्। आराधयामास तदा कुष्ठिनं तमनिन्दिता
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम्। सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम्
स्थविरं विकृताकारं शीर्यमाणनखत्वचम्। उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम्
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत। अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा। वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा
नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः। न च दुर्गन्धवदनो न कृशो न च लोलुपः
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम्। वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम्। भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह
पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः। रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः
तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः। स पञ्चधा तु भूत्वा तां रमयामास सर्वतः
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम्। आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः
स चचार यथाकामं कामरूपवपुः पुनः। यदा ययौ दिवं चापि तत्र देवर्षिभिः सह
चचार सोऽमृताहारः सुरलोके चचार ह। पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि