यत्नेन तु स तं हर्षं सन्निगृह्य परंतपः। अनुरूपं तदा वाचा प्रत्युवाच युधिष्ठिरम्
पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरात्। स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः
तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्। विगर्हयामास तदा धृतराष्ट्रं नरेश्वरम्
आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्। प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः
ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि। यमौ च राज्ञा संदिष्टं विविशुर्भवनं महत्
तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः। प्रत्याश्वस्तस्ततो राजा सह पुत्रैरुवाच तम्
गृह्णातु विधिवत्पाणिमद्यायं कुरुनन्दनः। पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्
तमब्रवीत्ततो राजा धर्मात्मा च युधिष्ठिरः। `ममापि दारसंबन्धः कार्यस्तावद्विशांपते
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम। यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश
सर्वेषां महिषी राजन्द्रौपदी नो भविष्यति। एवं प्रव्याहृतं पूर्वं मम मात्रा विशांपते
अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः। पार्थेन विजिता चैषा रत्नभूता सुता तव
एष नः समयो राजँल्लब्धस्य सह भोजनम्। न च तं हातुमिच्छामः समयं राजसत्तम
अक्रमेण निवेशे च धर्मलोपो महान्भवेत्।' सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति। आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करान्
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन। नैकस्या बहवः पुंसः श्रूयन्ते पतयः क्वचित्
सोऽयं न लोके वेदे वा जातु धर्मः प्रशस्ते।' लोकवेदविरुद्धं त्वं नाधर्मं धर्मविच्छुचिः। कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्। पूर्वेषामानुपूर्व्येण यातं वर्त्माऽनुयामहे
न मे वागनृतं प्राह नाधर्मे धीयते मतिः। एवं चैव वदत्यम्बा मम चैतन्मनोगतम्
आश्रमे रुद्रनिर्दिष्टाद्व्यासादेतन्मया श्रुतम्।' एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्। मा च शङ्का तत्र ते स्यात्कथंचिदपि पार्थिव
त्वं च कुन्ती च कौन्तय धृष्टद्युम्नश्च मे सुतः। कथयन्त्विति कर्तव्यं श्वः काल्ये करवामहे
ते समेत्य ततः सर्वे कथयन्ति स्म भारत। अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया
ततस्ते पाण्डवाः सर्वे पाञ्चाल्यश्च महायशाः। प्रत्युथाय महात्मानं कृष्णं सर्वेऽभ्यवादयन्
प्रतिनन्द्य स तां पूजां पृष्ट्वा कुशलमन्ततः। आसने काञ्चने शुद्धे निषसाद महामनाः
अनुज्ञातास्तु ते सर्वे कृष्णेनामिततेजसा। आसनेषु महार्हेषु निषेदुर्द्विपदां वराः
ततो मुहूर्तान्मधुरां वाणीमुच्चार्य पार्षतः। पप्रच्छ तं महात्मानं द्रौपद्यर्थं विशांपते
कथमेका बहूनां स्यान्न च स्याद्धर्मसंकरः। एतन्मे भगवान्सर्वं प्रब्रवीतु यथातथम्
अस्मिन्धर्मे विप्रलब्धे लोकवेदविरोधके। यस्य यस्य मतं यद्यच्छ्रोतुमिच्छामि तस्य तत्
अधर्मोऽयं मम मतो विरुद्धो लोकवेदयोः। न ह्येका विद्यते पत्नी बहूनां द्विजसत्तम
न चाप्याचरितः पूर्वैरयं धर्मो महात्मभिः। न चाप्यधर्मो विद्वद्भिश्चरितव्यः कथंचन
ततोऽहं न करोम्येनं व्यवसायं क्रियां प्रति। धर्मः सदैव संदिग्धः प्रतिभाति हि मे त्वयम्
यवीयसः कथं भार्यां ज्येष्ठो भ्राता द्विजर्षभ। ब्रह्मन्समभिवर्तेत सद्वृत्तः संस्तपोधन