ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ। धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम्
धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा। समुत्तिष्ठतु कल्याणी मृतैवं यदि मन्यसे
प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि। उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता
एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा। रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी
एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः। आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धमलुप्यत
तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा। विवाहं तौ च रेमाते परस्परहितैषिणौ
स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसुप्रभाम्। व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः
स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः। अभिहन्ति यथासत्त्वं गृह्य प्रहरणं सदा
स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत्। शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम्
तत उद्यम्य दम्डं स कालदण्डोपमं तदा। जिघांसुः कुपितो विप्रस्तमुवाचाथ डुण्डुभः
नापराध्यामि ते किंचिदहमद्य तपोधन। संरम्भाच्च किमर्थं मामभिहंसि रुषान्वितः
मम प्राणसमा भार्या दष्टासीद्भुजगेन ह। तत्र मे समयो घोर आत्मनोरग वै कृतः
भुजंगं वै सदा हन्यां यं यं पश्येयमित्युत। ततोऽहं त्वां जिघांसामि जीवितेनाद्य मोक्ष्यसे
अन्ये ते भुजगा ब्रह्मन्ये दश्तीह मानवान्। डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि
एकानर्थान्पृथग्धर्मानेकदुःखान्पृथक्सुखान्। डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि
इति श्रुत्वा वचस्तस्य डुण्डुभस्य रुरुस्तदा। नावधीद्भयसंविग्नमृषिं मत्त्वाऽथ डुण्डुभम्
उवाच चैनं भगवान्रुरुः संशमयन्निव। केन त्वं भुजग ब्रूहि कोऽसीमां विक्रियां गतः
अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात्। सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः
किमर्थं शप्तवान्कुद्धो द्विजस्त्वां भुजगोत्तम। कियन्तं चैव कालं ते वपुरेतद्भविष्यसि
सखा बभूव मे पूर्वं खगमो नाम वै द्विजः। भृशं संशितवाक्तात तपोबलसमन्वितः
स मया क्रीडता बाल्ये कृत्वा तार्णं भुजंगमम्। अग्निहोत्रे प्रसक्तस्तु भीषितः प्रमुमोह वै
लब्ध्वा स च पुनः संज्ञां मामुवाच तपोधनः। नर्दहन्निव कोपेन सत्यवाक्संशितव्रतः
यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया। तथावीर्यो भुजंगस्त्वं मम शापाद्भविष्यसि
तस्याहं तपसो वीर्यं जानन्नासं तपोधन। भृशमुद्विग्नहृदयस्तमवोचमहं तदा
प्रणतः संभ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः। सखेति हसतेदं ते नर्मार्थं वै कृतं मया
क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम्। सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम्
मुहुरुष्णं विनिःश्वस्य सुसंभ्रान्तस्तपोधनः। नानृतं वै मया प्रोक्तं भवितेदं कथंचन
यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे तपोधन। श्रुत्वा च हृदि ते वाक्यमिदमस्तु सदाऽनघ
उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः। तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव। `एवमुक्तस्तु तेनाहमुरगत्वमवाप्तवान्
स त्वं रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च। स्वरूपं प्रतिपद्याहमद्य वक्ष्यामि ते हितम्