इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः। एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत्
ततः प्रयाताः कुरुपुंगवास्ते पुरोहितं तं परियाप्य सर्वे। आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने
स्त्रीभिः सुगन्धाम्बरमाल्यदानै- र्विभूषिता आभरणैर्विचित्रैः। माङ्गल्यगीतध्वनिवाद्यघोषै- र्मनोहरैः पुण्यकृतां वरिष्ठैः
संगीयमानाः प्रययुः प्रहृष्टा दीपैर्ज्वलद्भिः सहिताश्च विप्रैः
स वै तथोक्तस्तु युधिष्ठिरेण पाञ्चालराजस्य पुरोहितोऽग्र्यः। सर्वं यथोक्तं कुरुनन्दनेन निवेदयामास नृपाय गत्वा
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः। जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार
फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथाऽऽसनानि। गाश्चैव राजन्नथ चैव रज्जू- र्बीजानि चान्यानि कृषीनिमित्तम्
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र। क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा
वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः। धनूंषि चाग्र्याणि शराश्च चित्राः शक्त्यृष्टयः काञ्चनभूषणाश्च
प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम्। शय्यासनान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र
कुन्ती तु कृष्णां परिगृह्य साध्वी- मन्तःपुरं द्रुपदस्याविवेश। स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयामासुरदीनसत्वाः
तान्सिंहविक्रान्तगतीन्निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान्। गूढोत्तरांसान्भुजगेन्द्रभोग- प्रलम्बबाहून्पुरुषप्रवीरान्
राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव। प्रेष्याश्च सर्वे निखिलेन राज- न्हर्षं समापेतुरतीव तत्र
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः। यथानुपूर्व्याद्विविशुर्नराग्र्या- स्तथा महार्हेषु न विस्मयन्तः
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु। दासाश्च दास्यश्च सुमृष्टवेषाः संभोजकाश्चाप्युपजह्रुरन्नम्
ते तत्र भुक्त्वा पुरुषप्रवीरा यथात्मकामं सुभृशं प्रतीताः। उत्क्रम्य सर्वाणि वसूनि राज- न्सांग्रामिकं ते विविशुर्नृवीराः
तल्लक्षयित्वा द्रुपदस्य पुत्रा राजा च सर्वैः सह मन्त्रिमुख्यैः। समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवराजपुत्रान्
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्। परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्। कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत
वैश्यान्वा गुणसंपन्नानथ वा शूद्रयोनिजान्। मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम्
कृष्णाहेतोरनुप्राप्ता देवाः संदर्शनार्थिनः। ब्रवीतु नो भवान्सत्यं सन्देहो ह्यत्र नो महान्
अपि नः संशयस्यान्ते मनः संतुष्टिमावहेत्। अपि नो भागधेयानि शुभानि स्युः परन्तप
इच्छया ब्रूहि तत्सत्यं सत्यं राजसु शोभते। इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु
श्रुत्वा ह्यमरसङ्काश तव वाक्यमरिंदम। ध्रुवं विवाहकरणमास्थास्यामि विधानतः
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते। ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्
वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः। ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ
आभ्यां तव सुता राजन्निर्जिता राजसंसदि। यमौ च तत्र कुन्ती च यत्र कृष्मा व्यवस्थिता
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ। पद्मिनीव सुतेयं ते ह्रदादन्यह्रदं गता
इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते। भवान्हि गुरुरस्माकं परमं च परायणम्
ततः स द्रुपदो राजा हर्षव्याकुललोचनः। प्रतिवक्तुं मुदा युक्तो नाशकत्तं युधिष्टिरम्