समीपतो भीममिदं शशास प्रदीयतां पाद्यमर्ध्यं तथाऽस्मै। मान्यः पुरोधा द्रुपदस्य राज्ञ- स्तस्मै प्रयोज्याऽभ्यधिका हि पूजा
भीमस्ततस्तत्कृतवान्नरेन्द्र तां चैव पूजां प्रतिगृह्य हर्षात्। सुखोपविष्टं तु पुरोहितं तदा युधिष्ठिरो ब्राह्मणमित्युवाच
पाञ्चालराजेन सुता निसृष्टा स्वधर्मदृष्टेन यथा न कामात्। प्रदिष्टशुंल्का द्रुपदेन राज्ञा सा तेन वीरेण तथाऽनुवृत्ता
न तत्र वर्णेषु कृता विवक्षा न चापि शीले न कुले न गोत्रे। कृतेन सज्येन हि कार्मुकेण विद्धेन लक्ष्येण हि सा विसृष्टा
सेयं तथाऽनेन महात्मनेह कृष्णा जिता पार्थिवसङ्घमध्ये। नैवं गते सौमकिरद्य राजा सन्तापमर्हत्यसुखाय कर्तुम्
कामश्च योऽसौ द्रुपदस्य राज्ञः स चापि संपत्स्यति पार्थिवस्य। संप्राप्यरूपां हि नरेन्द्रकन्या- मिमामहं ब्राह्मण साधु मन्ये
न तद्धनुर्मन्दबलेन शक्यं मौर्व्या समायोजयितुं तथाहि। न चाकृतास्त्रेण न हीनजेन लक्ष्यं तथा पातयितुं हि शक्यम्
तस्मान्न तापं दुहितुर्निमित्तं पाञ्चालराजोऽर्हति कर्तुमद्य। न चापि तत्पातनमन्यथेह कर्तुं हि शक्यं भुवि मानवेन
एवं ब्रुवत्येव युधिष्ठिरे तु पाञ्चालराजस्य समीपतोऽन्यः। तत्राजगामाशु नरो द्वितीयो निवेदयिष्यन्निह सिद्धमन्नम्
जन्यार्थमन्नं द्रुपदेन राज्ञा विवाहहेतोरुपसंस्कृतं च। तदाप्नुवध्वं कृतसर्वकार्याः कृष्णा च तत्रैतु चिरं न कार्यम्
इमे रथाः काञ्चनपद्मचित्राः सदश्वयुक्ता वसुधाधिपार्हाः। एतान्समारुह्य परैत सर्वे पाञ्चालराजस्य निवेशनं तत्
ततः प्रयाताः कुरुपुंगवास्ते पुरोहितं तं परियाप्य सर्वे। आस्थाय यानानि महान्ति तानि कुन्ती च कृष्णा च सहैकयाने
स्त्रीभिः सुगन्धाम्बरमाल्यदानै- र्विभूषिता आभरणैर्विचित्रैः। माङ्गल्यगीतध्वनिवाद्यघोषै- र्मनोहरैः पुण्यकृतां वरिष्ठैः
संगीयमानाः प्रययुः प्रहृष्टा दीपैर्ज्वलद्भिः सहिताश्च विप्रैः
स वै तथोक्तस्तु युधिष्ठिरेण पाञ्चालराजस्य पुरोहितोऽग्र्यः। सर्वं यथोक्तं कुरुनन्दनेन निवेदयामास नृपाय गत्वा
श्रुत्वा तु वाक्यानि पुरोहितस्य यान्युक्तवान्भारत धर्मराजः। जिज्ञासयैवाथ कुरूत्तमानां द्रव्याण्यनेकान्युपसंजहार
फलानि माल्यानि च संस्कृतानि वर्माणि चर्माणि तथाऽऽसनानि। गाश्चैव राजन्नथ चैव रज्जू- र्बीजानि चान्यानि कृषीनिमित्तम्
अन्येषु शिल्पेषु च यान्यपि स्युः सर्वाणि कृत्यान्यखिलेन तत्र। क्रीडानिमित्तान्यपि यानि तत्र सर्वाणि तत्रोपजहार राजा
वर्माणि चर्माणि च भानुमन्ति खड्गा महान्तोऽश्वरथाश्च चित्राः। धनूंषि चाग्र्याणि शराश्च चित्राः शक्त्यृष्टयः काञ्चनभूषणाश्च
प्रासा भुशुण्ड्यश्च परश्वधाश्च सांग्रामिकं चैव तथैव सर्वम्। शय्यासनान्युत्तमवस्तुवन्ति तथैव वासो विविधं च तत्र
कुन्ती तु कृष्णां परिगृह्य साध्वी- मन्तःपुरं द्रुपदस्याविवेश। स्त्रियश्च तां कौरवराजपत्नीं प्रत्यर्चयामासुरदीनसत्वाः
तान्सिंहविक्रान्तगतीन्निरीक्ष्य महर्षभाक्षानजिनोत्तरीयान्। गूढोत्तरांसान्भुजगेन्द्रभोग- प्रलम्बबाहून्पुरुषप्रवीरान्
राजा च राज्ञः सचिवाश्च सर्वे पुत्राश्च राज्ञः सुहृदस्तथैव। प्रेष्याश्च सर्वे निखिलेन राज- न्हर्षं समापेतुरतीव तत्र
ते तत्र वीराः परमासनेषु सपादपीठेष्वविशङ्कमानाः। यथानुपूर्व्याद्विविशुर्नराग्र्या- स्तथा महार्हेषु न विस्मयन्तः
उच्चावचं पार्थिवभोजनीयं पात्रीषु जाम्बूनदराजतीषु। दासाश्च दास्यश्च सुमृष्टवेषाः संभोजकाश्चाप्युपजह्रुरन्नम्
ते तत्र भुक्त्वा पुरुषप्रवीरा यथात्मकामं सुभृशं प्रतीताः। उत्क्रम्य सर्वाणि वसूनि राज- न्सांग्रामिकं ते विविशुर्नृवीराः
तल्लक्षयित्वा द्रुपदस्य पुत्रा राजा च सर्वैः सह मन्त्रिमुख्यैः। समर्थयामासुरुपेत्य हृष्टाः कुन्तीसुतान्पार्थिवराजपुत्रान्
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्। परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः
पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्। कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत
वैश्यान्वा गुणसंपन्नानथ वा शूद्रयोनिजान्। मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम्