अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु। न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान्
ते तत्र शूराः कथयांबभूवुः कथा विचित्राः पृतनाधिकाराः। अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश्च
तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम्। सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ। सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम
पाञ्चालराजस्तु विषण्णरूप- स्तान्पाण्डवानप्रतिविन्दमानः। धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना। कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने
कच्चित्स वर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित्। कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र
कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण। वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य
विचित्रवीर्यस्य सुतस्य कच्चि- त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः। कच्चित्तु पार्थेन यवीयसाऽध्य धनुर्गृहीतं निहतं च लक्ष्यम्
ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः। धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा
योऽसौ युवा व्यायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः। यः कार्मुकाग्र्यं कृतवानधिज्यं लक्षं च यः पातितवान्पृथिव्याम्
असज्जमानश्च ततस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः। चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैर्ऋषिभिश्च जुष्टः
कृष्मा प्रगृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा। `श्यामो युवा वारणमत्तगामी कृत्वा महत्कर्म सुदुष्करं तत्
यः सूतपुत्रेण चकार युद्धं शङ्केऽर्जुनं तं त्रिदशेशवीर्यम्।' अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु
ततोऽपरः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महीप्ररोहम्। प्राकालयत्तेन स पार्थिवौघान् भीमोऽन्तकः प्राणभृतो यथैव
बाह्यां पुराद्भार्गवकर्मशालाम्
तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः। तथाविधैरेव नरप्रवीरै- रुपोपविष्टैस्त्रिबिरग्निकल्पैः
तस्यास्ततस्तावभिवाद्य पादा- वुक्त्वा च कृष्णामभिवादयेति। स्थितौ च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः
तेषां तु भैक्षं प्रतिगृह्य कृष्णा दत्वा बलिं ब्राह्मणसाच्च कृत्वा। तां चैव वृद्धां परिवेष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त
सुप्तास्तु ते पार्थिव सर्व एव कृष्णा च तेषां चरणोपधाने। आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्रास्तरणोपपन्नम्
ते नर्दमाना इव कालमेघाः कथा विचित्राः कथयांबभूवुः। न वैश्यशूद्रौपयिकीः कथास्ता न च द्विजानां कथयन्ति वीराः
निःसंशयं क्षत्रियपुंगवास्ते यथा हि युद्धं कथयन्ति राजन्। आशा हि नो व्यक्तमियं समृद्धा मुक्तान्हि पार्थाञ्शृणुमोऽग्निदाहात्
यथा हि लक्ष्यं निहतं धनुश्च सज्यं कृतं तेन तथा प्रसह्य। यथा हि भाषन्ति परस्परं ते छन्ना ध्रुवं ते प्रचरन्ति पार्थाः
ततः स राजा द्रुपदः प्रहृष्टः पुरोहितं प्रेषायामास तेषाम्। विद्याम युष्मानिति भाषमाणो महात्मानः पाण्डुसुताः स्थ कच्चित्
गृहीतवाक्यो नृपतेः पुरोधा गत्वा प्रशंसामभिधाय तेषाम्। वाक्यं समग्रं नृपतेर्यथाव- दुवाच चानुक्रमविक्रमेण
विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो वरदो वरार्हाः। लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं प्रतिपद्यते सः
आख्यात च ज्ञातिकुलानुपूर्वी पदं शिरःसु द्विषतां कुरुध्वम्। प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य च सानुगस्य
पाण्डुर्हि राजा द्रुपदस्य राज्ञः प्रियः सखा चात्मसमो बभूव। तस्यैष कामो दुहिता ममेयं स्नुषा यदि स्यादिह कौरवस्य
अयं हि कामो द्रुपदस्य राज्ञो हृदि स्थितो नित्यमनिन्दिताङ्गाः। यदर्जुनो वै पृथुदीर्घबाहु- र्धर्मेण विन्देत सुतां ममैताम्
कृतं हि तत्स्यात्सुकृतं ममेदं यशश्च पुण्यं च हितं तदेतत्। अथोक्तवाक्यं हि पुरोहितं स्थितं ततो विनीतं समुदीक्ष्य राजा