भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलना इवैधमानाः। मा वो विद्युः पार्थिवाः केचिदेव यास्यावहे शिबिरायैव तावत्। सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम्
धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ। अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने
सोज्ञायमानः पुरुषानवधाय समन्ततः। स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने
सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ। भैक्षं चरित्वा तु युधिष्ठिराय निवेदयांचक्रुरदीनसत्वाः
ततस्तु कुन्ती द्रुपदात्मजां ता- मुवाच काले वचनं वदान्या। ततोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम्
ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः। ततश्च शेषं प्रविभज्य शीघ्र- मर्धं चतुर्णां मम चात्मनश्च
अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः। गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक् सदैव
सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना। यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम्
कुशैस्तु भूमौ शयनं चकार माद्रीपुत्रः सहदेवस्तपस्वी। अथात्मकीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम्
अगस्त्यकान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम्। कुन्ती पुरस्तात्तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा
अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु। न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान्
ते तत्र शूराः कथयांबभूवुः कथा विचित्राः पृतनाधिकाराः। अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश्च
तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम्। सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ। सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम
पाञ्चालराजस्तु विषण्णरूप- स्तान्पाण्डवानप्रतिविन्दमानः। धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना। कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने
कच्चित्स वर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित्। कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र
कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण। वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य
विचित्रवीर्यस्य सुतस्य कच्चि- त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः। कच्चित्तु पार्थेन यवीयसाऽध्य धनुर्गृहीतं निहतं च लक्ष्यम्
ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः। धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा
योऽसौ युवा व्यायतलोहिताक्षः कृष्णाजिनी देवसमानरूपः। यः कार्मुकाग्र्यं कृतवानधिज्यं लक्षं च यः पातितवान्पृथिव्याम्
असज्जमानश्च ततस्तरस्वी वृतो द्विजाग्र्यैरभिपूज्यमानः। चक्राम वज्रीव दितेः सुतेषु सर्वैश्च देवैर्ऋषिभिश्च जुष्टः
कृष्मा प्रगृह्याजिनमन्वयात्तं नागं यथा नागवधूः प्रहृष्टा। `श्यामो युवा वारणमत्तगामी कृत्वा महत्कर्म सुदुष्करं तत्
यः सूतपुत्रेण चकार युद्धं शङ्केऽर्जुनं तं त्रिदशेशवीर्यम्।' अमृष्यमाणेषु नराधिपेषु क्रुद्धेषु वै तत्र समापतत्सु
ततोऽपरः पार्थिवसङ्घमध्ये प्रवृद्धमारुज्य महीप्ररोहम्। प्राकालयत्तेन स पार्थिवौघान् भीमोऽन्तकः प्राणभृतो यथैव
बाह्यां पुराद्भार्गवकर्मशालाम्
तत्रोपविष्टार्चिरिवानलस्य तेषां जनित्रीति मम प्रतर्कः। तथाविधैरेव नरप्रवीरै- रुपोपविष्टैस्त्रिबिरग्निकल्पैः
तस्यास्ततस्तावभिवाद्य पादा- वुक्त्वा च कृष्णामभिवादयेति। स्थितौ च तत्रैव निवेद्य कृष्णां भिक्षाप्रचाराय गता नराग्र्याः
तेषां तु भैक्षं प्रतिगृह्य कृष्णा दत्वा बलिं ब्राह्मणसाच्च कृत्वा। तां चैव वृद्धां परिवेष्य तांश्च नरप्रवीरान्स्वयमप्यभुङ्क्त
सुप्तास्तु ते पार्थिव सर्व एव कृष्णा च तेषां चरणोपधाने। आसीत्पृथिव्यां शयनं च तेषां दर्भाजिनाग्रास्तरणोपपन्नम्