अन्यानशक्तान्नृपतीन्समीक्ष्य स्वयंवरे कार्मुकेणोत्तमेन। धनञ्जयस्तद्धनुरेकवीरः सज्यं करोतीत्यभिवीक्ष्य कृष्णः
इति स्वयं वासुदेवो विचिन्त्य पार्थान्विवित्सन्विविधैरुपायैः। न तद्धनुः सज्यमियेप कर्तुं बभूवुरस्येष्टतमा हि पार्थाः
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्। तमेवार्थं ध्यायमाना मनोभिः सर्वे च ते तस्थुरदीनसत्वाः
वृष्णिप्रवीरस्तु कुरुप्रवीरा- नाशंसमानः सहरौहिणेयः। जगाम तां भार्गवकर्मशालां यत्रासते ते पुरुषप्रवीराः
तत्रोपविष्टं पृथुदीर्घबाहुं ददर्श कृष्णः सहरौहिणेयः। अजातशत्रुं परिवार्य तांश्चा- प्युपोपविष्टाञ्ज्वलनप्रकाशान्
ततोऽब्रवीद्वासुदेवोऽभिगम्य कुन्तीसुतं धर्मभृतां वरिष्ठम्। कृष्णोऽहमस्मीति निपीड्य पादौ युधिष्ठिरस्याजमीढस्य राज्ञः
तथैव तस्याप्यनु रौहिणेय- स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन। पितृष्वसुश्चापि यदुप्रवीरा- वगृह्णतां भारतमुख्य पादौ
अजातशत्रुश्च कुरुप्रवीरः पप्रच्छ कृष्णं कुशलं विलोक्य। कथं वयं वासुदेव त्वयेह गूढा वसन्तो विदिताश्च सर्वे
तमब्रवीद्वासुदेवः प्रहस्य गूढोऽप्यग्निर्ज्ञायत एव राजन्। तं विक्रमं पाण्डवेयानतीत्य कोऽन्यः कर्ता विद्यते मानुषेषु
दिष्ट्या सर्वे पावकाद्विप्रमुक्ता यूयं घोरात्पाण्डवाः शत्रुसाहाः। दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः सहामात्यो न सकामोऽभविष्यत्
भद्रं वोऽस्तु निहितं यद्गुहायां विवर्धध्वं ज्वलना इवैधमानाः। मा वो विद्युः पार्थिवाः केचिदेव यास्यावहे शिबिरायैव तावत्। सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः प्रायाच्छीघ्रं बलदेवेन सार्धम्
धृष्टद्युमनस्तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ। अन्वगच्छत्तदा यान्तौ भार्गवस्य निवेशने
सोज्ञायमानः पुरुषानवधाय समन्ततः। स्वयमारान्निलीनोऽभूद्भार्गवस्य निवेशने
सायं च भीमस्तु रिपुप्रमाथी जिष्णुर्यमौ चापि महानुभावौ। भैक्षं चरित्वा तु युधिष्ठिराय निवेदयांचक्रुरदीनसत्वाः
ततस्तु कुन्ती द्रुपदात्मजां ता- मुवाच काले वचनं वदान्या। ततोऽग्रमादाय कुरुष्व भद्रे बलिं च विप्राय च देहि भिक्षाम्
ये चान्नमिच्छन्ति ददस्व तेभ्यः परिश्रिता ये परितो मनुष्याः। ततश्च शेषं प्रविभज्य शीघ्र- मर्धं चतुर्णां मम चात्मनश्च
अर्धं तु भीमाय च देहि भद्रे य एष नागर्षभतुल्यरूपः। गौरो युवा संहननोपपन्न एषो हि वीरो बहुभुक् सदैव
सा हृष्टरूपैव तु राजपुत्री तस्या वचः साध्वविशङ्कमाना। यथावदुक्तं प्रचकार साध्वी ते चापि सर्वे बुभुजुस्तदन्नम्
कुशैस्तु भूमौ शयनं चकार माद्रीपुत्रः सहदेवस्तपस्वी। अथात्मकीयान्यजिनानि सर्वे संस्तीर्य वीराः सुषुपुर्धरण्याम्
अगस्त्यकान्तामभितो दिशं तु शिरांसि तेषां कुरुसत्तमानाम्। कुन्ती पुरस्तात्तु बभूव तेषां पादान्तरे चाथ बभूव कृष्णा
अशेत भूमौ सह पाण्डुपुत्रैः पादोपधानीव कृता कुशेषु। न तत्र दुःखं मनसापि तस्या न चावमेने कुरुपुङ्गवांस्तान्
ते तत्र शूराः कथयांबभूवुः कथा विचित्राः पृतनाधिकाराः। अस्त्राणि दिव्यानि रथांश्च नागान् खड्गान्गदाश्चापि परश्वधांश्च
तेषां कथास्ताः परिकीर्त्यमानाः पाञ्चालराजस्य सुतस्तदानीम्। सुश्राव कृष्णां च तदा निषण्णां ते चापि सर्वे ददृशुर्मनुष्याः
धृष्टद्युम्नो राजपुत्रस्तु सर्वं वृत्तं तेषां कथितं चैव रात्रौ। सर्वं राज्ञे द्रुपदायाखिलेन निवेदयिष्यंस्त्वरितो जगाम
पाञ्चालराजस्तु विषण्णरूप- स्तान्पाण्डवानप्रतिविन्दमानः। धृष्टद्युम्नं पर्यपृच्छन्महात्मा क्व सा गता केन नीता च कृष्णा
कच्चिन्न शूद्रेण न हीनजेन वैश्येन वा करदेनोपपन्ना। कच्चित्पदं मूर्ध्नि न पङ्कदिग्धं कच्चिन्न माला पतिता श्मशाने
कच्चित्स वर्णप्रवरो मनुष्य उद्रिक्तवर्णोऽप्युत एव कच्चित्। कच्चिन्न वामो मम मूर्ध्नि पादः कृष्णाभिमर्शेन कृतोऽद्य पुत्र
कच्चिन्न तप्स्ये परमप्रतीतः संयुज्य पार्थेन नरर्षभेण। वदस्व तत्त्वेन महानुभाव कोऽसौ विजेता दुहितुर्ममाद्य
विचित्रवीर्यस्य सुतस्य कच्चि- त्कुरुप्रवीरस्य ध्रियन्ति पुत्राः। कच्चित्तु पार्थेन यवीयसाऽध्य धनुर्गृहीतं निहतं च लक्ष्यम्
ततस्तथोक्तः परिहृष्टरूपः पित्रे शशंसाथ स राजपुत्रः। धृष्टद्युम्नः सोमकानां प्रबर्हो वृत्तं यथा येन हृता च कृष्णा