ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा। अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान्। अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः। निवारयामास महीपतींस्ता- न्धर्मेण लब्धेत्यनुनीय सर्वान्
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः। यथावासं ययुः सर्वे विस्मिता राजसत्तमाः
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता। इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः। कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ। कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ। तेषां माता बहुविधं विनाशं पर्यचिन्तयत्
अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते। धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः। विपरीतं मतं जातं व्यासस्यापि महात्मनः
इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा। ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते
महत्यथापराह्णे तु घनैः सूर्य इवावृतः। ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत्
गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ। तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ
कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे। पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच
साऽधर्मभीता परिचिन्तयन्ती तां याज्ञसेनीं परमप्रतीताम्। पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम्
इयं तु कन्या द्रुपदस्य राज्ञ- स्तवानुजाभ्यां मयि संनिसृष्टा। यथोचितं पुत्र मयाऽपि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात्
मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि। पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च
स एवमुक्तो मतिमान्नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा। कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे
त्वया जिता फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री। प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत्त्वमस्याः
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मोऽयमशिष्टदृष्टः। भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा
अहं ततो नकुलोऽनन्तरं मे पश्चादयं सहदेवस्तरस्वी। वृकोदरोऽहं च यमौ च राज- न्नियं च कन्या भवतो नियोज्याः
एवं गते यत्करणीयमत्र धर्म्यं यशस्यं कुरु तद्विचिन्त्य। पाञ्चालराजस्य हितं च यत्स्या- त्प्रशाधि सर्वे स्म वशे स्थितास्ते
जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम्। दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः
दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम्। संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम्। संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम्। बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः। द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः। सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा
सताऽपि शक्तेन च केशवेन सज्यं धनुस्तन्न कृतं किमर्थम्। विद्धं च लक्ष्यं न च कस्य हेतो- राचक्ष्व तन्मे द्विपदां वरिष्ठ
शक्तेन कृष्णेन च कार्मुकं त- न्नारोपितं ज्ञातुकामेन पार्थान्। परिश्रवादेव बभूव लोके जीवन्ति पार्था इति निश्चयोऽस्य