द्वावत्र ब्राह्मणौ क्रूरौ वाय्विन्द्रसदृशौ बले। ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम्
एवं संभाषमाणास्ते न्यवर्तन्ताथ कौरवाः। जहृषुर्ब्राह्मणास्तत्र समेतास्तत्र सङ्घशः
बहुशस्ते ततस्तत्र क्षत्रिया रणमूर्धनि। प्रेक्षमाणास्तथाऽतिष्ठन्ब्राह्मणांश्च समन्ततः
ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः। विजिते भीमसेनेन शल्ये कर्णे च निर्जिते
दुर्योधने चापयाते तथा दुःशासने रणात्।' शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्
ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ। विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च
को हि राधासुतं कर्णं शक्तो योधयितुं रणे। अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः
कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः। को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे
तथैव मद्राधिपतिं शल्यं बलवतांवरम्। बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्
वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे। क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्
ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा। अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान्। अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः। निवारयामास महीपतींस्ता- न्धर्मेण लब्धेत्यनुनीय सर्वान्
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः। यथावासं ययुः सर्वे विस्मिता राजसत्तमाः
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता। इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः। कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ। कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ। तेषां माता बहुविधं विनाशं पर्यचिन्तयत्
अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते। धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः। विपरीतं मतं जातं व्यासस्यापि महात्मनः
इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा। ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते
महत्यथापराह्णे तु घनैः सूर्य इवावृतः। ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत्
गत्वा तु तां भार्गवकर्मशालां पार्थौ पृथां प्राप्य महानुभावौ। तां याज्ञसेनीं परमप्रतीतौ भिक्षेत्यथावेदयतां नराग्र्यौ
कुटीगता सा त्वनवेक्ष्य पुत्रौ प्रोवाच भुङ्क्तेति समेत्य सर्वे। पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां कष्टं मया भाषितमित्युवाच
साऽधर्मभीता परिचिन्तयन्ती तां याज्ञसेनीं परमप्रतीताम्। पाणौ गृहीत्वोपजगाम कुन्ती युधिष्ठिरं वाक्यमुवाच चेदम्
इयं तु कन्या द्रुपदस्य राज्ञ- स्तवानुजाभ्यां मयि संनिसृष्टा। यथोचितं पुत्र मयाऽपि चोक्तं समेत्य भुङ्क्तेति नृप प्रमादात्
मया कथं नानृतमुक्तमद्य भवेत्कुरूणामृषभ ब्रवीहि। पञ्चालराजस्य सुतामधर्मो न चोपवर्तेत न विभ्रमेच्च
स एवमुक्तो मतिमान्नृवीरो मात्रा मुहूर्तं तु विचिन्त्य राजा। कुन्तीं समाश्वास्य कुरुप्रवीरो धनञ्जयं वाक्यमिदं बभाषे
त्वया जिता फाल्गुन याज्ञसेनी त्वयैव शोभिष्यति राजपुत्री। प्रज्वाल्यतामग्निरमित्रसाह गृहाण पाणिं विधिवत्त्वमस्याः
मा मां नरेन्द्र त्वमधर्मभाजं कृथा न धर्मोऽयमशिष्टदृष्टः। भवान्निवेश्यः प्रथमं ततोऽयं भीमो महाबाहुरचिन्त्यकर्मा