आकारज्ञस्तथा भ्रातुः पाण्डवोऽपि न्यवर्तत। धर्मराजश्च कौरव्य दुर्योधनममर्षणम्
अयोधयत्सभामध्ये पश्यतां वै महीक्षिताम्। ततो दुर्योधनस्तं तु ह्यवज्ञाय युधिष्ठिरम्
नायोधयत्तदा तेन बलवान्वै सुयोधनः। एतस्मिन्नन्तरेऽविध्यद्बाणेनानतपर्वणा
दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः। ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः
प्रत्ययुध्यत राजानं यत्नं परममास्थितः। छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे
अभ्यवर्षच्छरौघैस्तं स हित्वा प्राद्रवद्रणम्। दुःशासनस्तु संक्रुद्धः सहदेवेन पार्थिव
युद्ध्वा च सुचिरं कालं सहदेवेन निर्जितः। उत्सृज्य च धनुः सङ्ख्ये जानुभ्यामवनीं गतः। उत्थाय सोऽभिदुद्राव सोसिं जग्राह चर्म च
विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः। मा युद्धमिति कौरव्य ब्राह्मणेनाबलेन वै
दुःसहो नकुलश्चोभौ युद्धं कर्तुं समुद्यतै। तौ दृष्ट्वा कौरवा युद्धं वाक्यमूचुर्महाबलौ
निवर्तन्तां भवन्तो वै कुतो विप्रेषु क्रूरता। दुर्बला ब्राह्मणाश्चेमे भवन्तो वै महाबलाः
द्वावत्र ब्राह्मणौ क्रूरौ वाय्विन्द्रसदृशौ बले। ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम्
एवं संभाषमाणास्ते न्यवर्तन्ताथ कौरवाः। जहृषुर्ब्राह्मणास्तत्र समेतास्तत्र सङ्घशः
बहुशस्ते ततस्तत्र क्षत्रिया रणमूर्धनि। प्रेक्षमाणास्तथाऽतिष्ठन्ब्राह्मणांश्च समन्ततः
ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः। विजिते भीमसेनेन शल्ये कर्णे च निर्जिते
दुर्योधने चापयाते तथा दुःशासने रणात्।' शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्
ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ। विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च
को हि राधासुतं कर्णं शक्तो योधयितुं रणे। अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः
कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः। को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे
तथैव मद्राधिपतिं शल्यं बलवतांवरम्। बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्
वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे। क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्
ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा। अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान्। अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे
तत्कर्म भीमस्य समीक्ष्य कृष्णः कुन्तीसुतौ तौ परिशङ्कमानः। निवारयामास महीपतींस्ता- न्धर्मेण लब्धेत्यनुनीय सर्वान्
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः। यथावासं ययुः सर्वे विस्मिता राजसत्तमाः
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता। इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः। कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ। कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ। तेषां माता बहुविधं विनाशं पर्यचिन्तयत्
अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते। धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः। विपरीतं मतं जातं व्यासस्यापि महात्मनः