युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा। भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली
दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः। मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाऽऽहवे
ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः। कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः
तेषां शराणां वेगेन शितानां तिग्मतेजसाम्। विमुह्यमानो राधेयो यत्नात्तमनुधावति
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ। अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे। इति शूरार्थवचनैरभाषेतां परस्परम्
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि। ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा। प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन्
तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे। अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम। अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः। विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः। पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः
दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास्तदा। विनार्जुनं वा समरे मां निहन्तुमशक्नुवन्
तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत। नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः। ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात्
स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव। `निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम्
एवमुक्त्वाऽथ कर्णस्य धनुश्चिच्छेद पाण्डवः। ततोऽन्यद्धनुरादाय संयोद्धुं सन्दधे शरम्
दृष्ट्वा तच्चापि कौन्तेयश्छित्वा तद्धनुराशुगैः। तथा वैकर्तनं कर्णं बिभेद समरेऽर्जुनः
ततः कर्णस्तु राधेयः छिन्नछन्वा महाबलः। शरैरतीव विद्धाङ्गः पलायनमथाकरोत्
पुनरायान्मुहूर्तेन गृहीत्वा सशरं धनुः। ववर्ष शरवर्षाणि पार्थं वैकर्तनस्तथा
तानि वै शरजालानि कौन्तेयोऽभ्यहनच्छरैः। ज्ञात्वा सर्वाञ्शरान्घोरान्कर्णोऽदावद्द्रुतं बहिः
ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः। अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ
बलिनौ युद्धसंपन्नौ विद्यया च बलेन च। अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्। प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः
आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः। ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः
पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः। मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम्
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे। अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः। यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते। `विस्मयः परमो जज्ञे सर्वेषां पश्यतां नृणाम्
ततो राजसमूहस्य पश्यतो वृक्षमारुजत्। ततस्तु भीमं संज्ञाभिर्वारयामास धर्मराट्