अवरोप्येह वृक्षस्तु फलकाले निपात्यते। निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते
न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः। हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान्। गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते
अस्मिन्राजसमवाये देवानामिव सन्नये। किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्
न च विप्रेष्वधीकारो विद्यते वरणं प्रति। स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः
अथवा यदि कन्येयं न च कंचिद्बुभूषति। अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः
ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम्। विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च। पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्
अवमानभयाच्चैव स्वधर्मस्य च रक्षणात्। स्वयंवराणामन्येषां मा भूदेवंविधा गतिः
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः। द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन्
तान्गृहीतशरावापान्क्रुद्धानापततो बहून्। द्रुपदो वीक्ष्य संग्रासाद्ब्राह्मणाञ्छरणं गतः
न भयान्नापि कार्पण्यान्न प्राणपरिरक्षणात्। जगाम द्रुपदो विप्राञ्शमार्थी प्रत्यपद्यत
वेगेनापततस्तांस्तु प्रभिन्नानिव वारणान्। पाण्डुपुत्रौ महेष्वासौ प्रतियातावरिन्दमौ
ततः समुत्पेतुरुदायुधास्ते महीक्षितो बद्धगोधाङ्गुलित्राः। जिघांसमानाः कुरुराजपुत्रा- वमर्षयन्तोऽर्जुनभीमसेनौ
ततस्तु भीमोऽद्भुतभीमकर्मा महाबलो वज्रसमानसारः। उत्पाट्य दोर्भ्यां द्रुममेकवीरो निष्पत्रयामास यथा गजेन्द्रः
तं वृक्षमादाय रिपुप्रमाथी दण्डीव दण्डं पितृराज उग्रम्। तस्थौ समीपे पुरुषर्षभस्य पार्थस्य पार्थः पृथुदीर्घबाहुः
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि- र्जिष्णुः स हि भ्रातुरचिन्त्यकर्मा। विसिष्मिये चापि भयं विहाय तस्थौ धनुर्गृह्य महेन्द्रकर्मा
तत्प्रेक्ष्य कर्मातिमनुष्यबुद्धि- र्जिष्णोः सहभ्रातुरचिन्त्यकर्मा। दामोदरो भ्रातरमुग्रवीर्यं हलायुधं वाक्यमिदं बभाषे
य एष सिंहर्षभखेलगामी मदद्धनुः कर्षति तालमात्रम्। एषोऽर्जुनो नात्र विचार्यमस्ति यद्यस्मि संकर्षण वासुदेवः
यस्त्वेष वृक्षं तरसाऽवभज्य राज्ञां निकारे सहसा प्रवृत्तः। वृकोदरान्नान्य इहैतदद्य कर्तुं समर्थः समरे पृथिव्याम्
योऽसौ पुरस्तात्कमलायताक्षो महातनुः सिंहगतिर्विनीतः। गौरः प्रलम्बोज्ज्वलचारुघोणो विनिःसृतः सोऽप्युत धर्मपुत्रः
यौ तौ कुमाराविव कार्तिकेयौ द्वावाश्विनेयाविति मे वितर्कः। मुक्ता हि तस्माज्जतुवेश्मदाहा- न्मया श्रुताः पाण्डुसुताः पृथा च
तमब्रवीन्निर्जलतोयदाभो हलायुधोऽनन्तरजं प्रतीतः। प्रीतोऽस्मि दृष्ट्वा हि पितृष्वसारं पृथां विमुक्तां सह कौरवाग्र्यैः
अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः। ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान्
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव। उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः
अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः। वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव
इति तद्धनुरानम्य शुल्कावाप्तं महाबलः। भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः
ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान्। संपेततुरभीतौ तौ गजौ प्रतिगजानिव
ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः। आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः
इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान्। ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे