ब्राह्मणो वाथ राजन्यो वैश्यो वा शूद्र एव वा। एतेषां यो धनुःश्रेष्ठं सज्यं कुर्याद्द्विजोत्तम
तस्मै प्रदेया भगिनी सत्यमुक्तं मया वचः
ततः पश्चान्महातेजाः पाण्डवो रणदुर्जयः।' स तद्धनुः परिक्रम्य प्रदक्षिणमथाकरोत्
प्रणम्य शिरसा देवमीनं वरदं प्रभुम्। कृष्णं च मनसा कृत्वा जगृहे चार्जुनो धनुः
यत्पार्थिवै रुक्मसुनीथवक्रै राधेयदुर्योधनशल्यसाल्वैः। तदा धनुर्वेदपरैर्नृसिंहैः कृतं न सज्यं महतोऽपि यत्नात्
तदर्जुनो वीर्यवतां सदर्प- स्तदैन्द्रिरिन्द्रावरजप्रभावः। सज्यं च चक्रे निमिषान्तरेण शरांश्च जग्राह दशार्दसङ्ख्यान्
विव्याध लक्ष्यं निपपात तच्च छिद्रेण भूमौ सहसातिविद्धम्। ततोऽन्तरिक्षे च बभूव नादः समाजमध्ये च महान्निनादः
पुष्पाणि दिव्यानि ववर्ष देवः पार्थस्य मूर्ध्नि द्विषतां निहन्तुः
चेलानि विव्यधुस्तत्र ब्राह्मणाश्च सहस्रशः। विलक्षितास्ततश्चक्रुर्हाहाकारांश्च सर्वशः। न्यपतंश्चात्र नभसः समन्तात्पुष्पवृष्टयः
शताङ्गानि च तूर्याणि वादकाः समवादयन्। सूतमागधसङ्घाश्चाप्यस्तुवंस्तत्र सुस्वराः
तं दृष्ट्वा द्रुपदः प्रीतो बभूव रिपुसूदनः। सह सैन्यैश्च पार्थस्य साहाय्यार्थमियेष सः
तस्मिंस्तु शब्दे महति प्रवृद्धे युधिष्ठिरो धर्मभृतां वरिष्ठः। आवासमेवोपजगाम शीघ्रं सार्धं यमाभ्यां पुरुषोत्तमाभ्याम्
विद्धं तु लक्ष्यं प्रसमीक्ष्य कृष्णा पार्थं च शक्रप्रतिमं निरीक्ष्य। `स्वभ्यस्तरूपापि नवेव नित्यं विनापि हासं हसतीव कन्या
मदादृतेऽपि स्खलतीव भावै- र्वाचा विना व्याहरतीव दृष्ट्या। आदाय शुक्लं वरमाल्यदाम जगाम कुन्तीसुतमुत्स्मयन्ती
गत्वा च पश्चात्प्रसमीक्ष्य कृष्णा पार्थस्य वक्षस्यविशङ्कमाना। क्षिप्त्वा स्रजं पार्थिववीरमध्ये वराय वव्रे द्विजसङ्घमध्ये
शचीव देवेन्द्रमथाग्निदेवं स्वाहेव लक्ष्मीश्च यथा मुकुन्दम्। उषेव सूर्यं मदनं रतीव महेश्वरं पर्वतराजपुत्री
स तामुपादाय विजित्य रङ्गे द्विजातिभिस्तैरभिपूज्यमानः। रङ्गान्निरक्रामदचिन्त्यकर्मा पत्न्या तया चाप्यनुगम्यमानः
तस्मै दित्सति कन्यां तु ब्राह्मणाय तदा नृपे। कोप आसीन्महीपानामालोक्यान्योन्यमन्तिकात्
ऊचुः सर्वे समागम्य परस्परहितैषिणः। वयं सर्वे समाहूता द्रुपदेन दुरात्मना। संहत्य चाभ्यगच्छाम स्वयंवरदिदृक्षया
अस्मानयमतिक्रम्य तृणीकृत्य च संगतान्। दातुमिच्छति विप्राय द्रौपदीं योषितां वराम्
अवरोप्येह वृक्षस्तु फलकाले निपात्यते। निहन्मैनं दुरात्मानं योयमस्मान्न मन्यते
न ह्यर्हत्येष संमानं नापि वृद्धक्रमं गुणैः। हन्मैनं सह पुत्रेण दुराचारं नृपद्विषम्
अयं हि सर्वानाहूय सत्कृत्य च नराधिपान्। गुणवद्भोजयित्वान्नं ततः पश्चान्न मन्यते
अस्मिन्राजसमवाये देवानामिव सन्नये। किमयं सदृशं कंचिन्नृपतिं नैव दृष्टवान्
न च विप्रेष्वधीकारो विद्यते वरणं प्रति। स्वयंवरः क्षत्रियाणामितीयं प्रथिता श्रुतिः
अथवा यदि कन्येयं न च कंचिद्बुभूषति। अग्नावेनां परिक्षिप्य याम राष्ट्राणि पार्थिवाः
ब्राह्मणो यदि चापल्याल्लोभाद्वा कृतवानिदम्। विप्रियं पार्थिवेन्द्राणां नैष वध्यः कथंचन
ब्राह्मणार्थं हि नो राज्यं जीवितं हि वसूनि च। पुत्रपौत्रं च यच्चान्यदस्माकं विद्यते धनम्
अवमानभयाच्चैव स्वधर्मस्य च रक्षणात्। स्वयंवराणामन्येषां मा भूदेवंविधा गतिः
इत्युक्त्वा राजशार्दूला रुष्टाः परिघबाहवः। द्रुपदं तु जिघांसन्तः सायुधाः समुपाद्रवन्