मानी दृढास्त्रसंपन्नः सर्वैश्च नृपलक्षणैः। उत्थितः सहसा तत्र भ्रातृमध्ये महाबलः
विलोक्य द्रौपदीं हृष्टो धनुषोऽभ्याशमागमत्। स बभौ धनुरादाय शक्रश्चापधरो यथा
धनुरारोपयामास तिलमात्रेऽभ्यताडयत्। आरोप्यमाणं तद्राजा धनुषा बलिना तदा
उत्तानशय्यमपतदङ्गुल्यन्तरताडितः। स ययौ ताडितस्तेन व्रीडन्निव नराधिपः
ततो वैकर्तनः कर्णो वृषा वै सूतनन्दनः। धनुरभ्याशमागम्य तोलयामास तद्धनुः
तं चाप्यारोप्यमाणं तद्रोममात्रेऽभ्यताडयत्। त्रैलोक्यविजयी कर्णः सत्वे त्रैलोक्यविश्रुतः
धनुषा सोऽपि निर्धूत इति सर्वे भयाकुलाः। एवं कर्णे विनिर्धूते धनुषा च नृपोत्तमाः
चक्षुर्भिरपि नापश्यन्विनम्रमुखपङ्कजाः। दृष्ट्वा कर्णं विनिर्धूतं लोके वीरा नृपोत्तमाः
निराशा धनुरुद्धारे द्रौपदीसंगमेऽपि च
तस्मिंस्तु संभ्रान्तजने समाजे निक्षिप्तवादेषु जनाधिपेषु। कुन्तीसुतो जिष्णुरियेष कर्तुं सज्यं धनुस्तत्सशरं च वीरः
ततो वरिष्ठः सुरदानवाना- मुदरधीर्वृष्णिकुलप्रवीरः। जहर्ष रामेण स पीड्य हस्तं हस्तंगतां पाण्डुसुतस्य मत्वा
न जज्ञिरेऽन्ये नृपविप्रमुख्याः संछन्नरूपानथ पाण्डुपुत्रान्। विना हि लोके च यदुप्रवीरौ धौम्यं हि धर्मं सह सोदरांश्च
यदा निवृत्ता राजानो धनुषः सज्यकर्मणः। अथोदतिष्ठद्विप्राणां मध्याज्जिष्णुरुदारधीः
उदक्रोशन्विप्रमुख्या विधुन्वन्तोऽजिनानि च। दृष्ट्वा संप्रस्थितं पार्थमिन्द्रकेतुसमप्रभम्
केचिदासन्विमनसः केचिदासन्मुदान्विताः। आहुः परस्परं केचिन्निपुणा बुद्धिजीविनः
यत्कर्णशल्यप्रमुखैः क्षत्रियैर्लोकविश्रुतैः। नानतं बलवद्भिर्हि धनुर्वेदपरायणैः
तत्कथं त्वकृतास्त्रेण प्राणतो दुर्बलीयसा। वटुमात्रेण शक्यं हि सज्यं कर्तुं धनुर्द्विजाः
अवहास्या भविष्यन्ति ब्राह्मणाः सर्वराजसु। कर्मण्यस्मिन्नसंसिद्धे चापलादपरीक्षिते
यद्येष दर्पाद्धर्षाद्वाप्यथ ब्राह्मणचापलात्। प्रस्थितो धनुरायन्तुं वार्यतां साधु मा गमत्
नावहास्या भविष्यामो न च लाघवमास्थिताः। न च विद्विष्टतां लोके गमिष्यामो महीक्षिताम्
केचिदाहुर्युवा श्रीमान्नागराजकरोपमः। पीनस्कन्धोरुबाहुश्च धैर्येण हिमवानिव
सिंहखेलगतिः श्रीमान्मत्तनागेन्द्रविक्रमः। संभाव्यमस्मिन्कर्मेदमुत्साहाच्चानुमीयते
शक्तिरस्य महोत्साहा न ह्यशक्तः स्वयं व्रजेत्। न च तद्विद्यते किंचित्कर्म लोकेषु यद्भवेत्
ब्राह्मणानामसाध्यं च नृषु संस्थानचारिषु। अब्भक्षा वायुभक्षाश्च फलाहारा दृढव्रताः
दुर्बला अपि विप्रा हि बलीयांसः स्वेतजसा। ब्राह्मणो नावमन्तव्यः सदसद्वा समाचरन्
सुखं दुःखं महद्ध्रस्वं कर्म यत्समुपागतम्। जामदग्न्येन रामेण निर्जिताः क्षत्रिया युधि
पीतः समुद्रोऽगस्त्येन अगाधो ब्रह्मतेजसा। तस्माद्ब्रुवन्तु सर्वेऽत्र वटुरेष धनुर्महान्
आरोपयतु शीघ्रं वै तथेत्यूचुर्द्विजर्षभाः
अर्जुनो धनुषोऽभ्याशे तस्थौ गिरिरिवाचलः। `अर्जुनः पाण्डवश्रेष्ठो धृष्टद्युम्नमथाब्रवीत्
तस्य तद्वचनं श्रुत्वा धृष्टद्युम्नोऽब्रवीद्वचः