त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि। एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्। विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः। अस्त्रं बलं चात्मनि मन्यमानाः सर्वें समुत्पेतुरुदायुधास्ते
रूपेण वीर्येण कुले चैव शीलेन वित्तेन च यौवनेन। समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः। कृष्णा ममैवेत्यभिभाषमाणा नृपाः समुत्पेतुरथासनेभ्यः
ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम्। चकाशिरे पर्वतराजकन्या- मुमां यथा देवगणाः समेताः
कन्दर्पबाणाभिनिपीडिताङ्गां कृष्णागतैस्ते हृदयैर्नरेन्द्राः। रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र
अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च। साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च
दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च। विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाऽप्सरोभिः
हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यताप्रधानम्। प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपा- न्पञ्चाभिपद्मानिव वारणेन्द्रान्। भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः
शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ। शनैःशनैस्तान्प्रसमीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ह
अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नत्रमनःस्वभावैः। व्यायच्छमाना ददृशुर्न तान्वै सन्दष्टदन्तच्छदताम्रनेत्राः
तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ। तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः
देवर्षिगन्धर्वसमाकुलं त- त्सुपर्णनागासुरसिद्धजुष्टम्। दिव्येन गन्धेन समाकुलं च दिव्यैश्च पुष्पैरवकीर्यमाणम्
महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम्। विमानसंबाधमभूत्समन्ता- त्सवेणुवीणापणवानुनादम्
समाजवाटोपरि संस्थितानां मेघैः समन्तादिव गर्जमानैः। ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च। सकर्णदुर्योधनशाल्वशल्य- द्रौणायनिक्राथसुनीथवक्राः
कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च। अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपाः पङ्कजपत्रनेत्राः
किरीटहाराङ्गदचक्रवालै- र्विभूषिताङ्गाः पृथुबाहवस्ते। अनुक्रमं विक्रमसत्वयुक्ता बलेन वीर्येण च नर्दमानाः
तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुर्मनसाऽपि कर्तुम्। ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः
विचेष्टमाना धरणीतलस्था यथाबलं शैक्ष्यगुणक्रमाश्च। गतौजसः स्नस्तकिरीटहारा विनिःश्वसन्तः शमयांबभूवुः
हहाकृतं तद्धनुषा दृढेन विस्रस्तहाराङ्गदचक्रवालम्। कृष्णानिमित्तं विनिवृत्तकामं राज्ञां तदा मण्डलमार्तमासीत्
एवं तेषु निवृत्तेषु क्षत्रियेषु समन्ततः। चेदीनामधिपो वीरो बलवानन्तकोपमः
दमघोषात्मजो धीमाञ्शिशुपालो महाद्युतिः। धनुषोऽभ्याशमागम्य तस्थौ राज्ञां समक्षतः
तदप्यारोप्यमाणं तु माषमात्रेऽभ्यताडयत्। धनुषा पीड्यमानस्तु जानुभ्यामगमन्महीम्
तत उत्थाय राजा स स्वराष्ट्राण्यभिजग्मिवान्। ततो राजा जरासन्धो महावीर्यो महाबलः
कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः। मत्तवारणताम्राक्षो मत्तवारणवेगवान्
धनुषोऽभ्याशमागत्य तस्थौ गिरिरिवाचलः। धनुरारोप्यमाणं तु सर्षमात्रेऽभ्यताडयत्
ततः शल्यो महावीर्यो मद्रराजो महाबलः। धनुरारोप्यमाणं तु मुद्गमात्रेऽभ्यताडयत्
तदैवागात्स्वयं राज्यं पश्चादनवलोकयन्। इदं धनुर्वरं कोऽद्य सज्यं कुर्वीत पार्थिवः
इति निश्चित्य मनसा भूय एव स्थितस्तदा। ततो दुर्योधनो राजा धार्तराष्ट्रः परन्तपः