रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च। कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः। सुदक्षिणश्च काम्भोजो दृढधन्वा च पौरवः
बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा। पटच्चरनिहन्ता च कारूषाधिपतिस्तथा
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्। साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा
अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः। कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च
विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः। आशावहोऽनिरुद्धश्च समीकः सारिमेजयः
वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा। उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः। बृहद्रथो बाह्लिकश्च श्रउतायुश्च महारथः
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ। वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा
शिशुपालख्च विक्रान्तो जरासन्धस्तथैव च। एते चान्ये च बहवो नानाजनपदेश्वराः
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि। एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्। विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः। अस्त्रं बलं चात्मनि मन्यमानाः सर्वें समुत्पेतुरुदायुधास्ते
रूपेण वीर्येण कुले चैव शीलेन वित्तेन च यौवनेन। समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः। कृष्णा ममैवेत्यभिभाषमाणा नृपाः समुत्पेतुरथासनेभ्यः
ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम्। चकाशिरे पर्वतराजकन्या- मुमां यथा देवगणाः समेताः
कन्दर्पबाणाभिनिपीडिताङ्गां कृष्णागतैस्ते हृदयैर्नरेन्द्राः। रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र
अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च। साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च
दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च। विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाऽप्सरोभिः
हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यताप्रधानम्। प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपा- न्पञ्चाभिपद्मानिव वारणेन्द्रान्। भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः
शशंस रामाय युधिष्ठिरं स भीमं सजिष्णुं च यमौ च वीरौ। शनैःशनैस्तान्प्रसमीक्ष्य रामो जनार्दनं प्रीतमना ददर्श ह
अन्ये तु वीरा नृपपुत्रपौत्राः कृष्णागतैर्नत्रमनःस्वभावैः। व्यायच्छमाना ददृशुर्न तान्वै सन्दष्टदन्तच्छदताम्रनेत्राः
तथैव पार्थाः पृथुबाहवस्ते वीरौ यमौ चैव महानुभावौ। तां द्रौपदीं प्रेक्ष्य तदा स्म सर्वे कन्दर्पबाणाभिहता बभूवुः
देवर्षिगन्धर्वसमाकुलं त- त्सुपर्णनागासुरसिद्धजुष्टम्। दिव्येन गन्धेन समाकुलं च दिव्यैश्च पुष्पैरवकीर्यमाणम्
महास्वनैर्दुन्दुभिनादितैश्च बभूव तत्सङ्कुलमन्तरिक्षम्। विमानसंबाधमभूत्समन्ता- त्सवेणुवीणापणवानुनादम्
समाजवाटोपरि संस्थितानां मेघैः समन्तादिव गर्जमानैः। ततस्तु ते राजगणाः क्रमेण कृष्णानिमित्तं कृतविक्रमाश्च। सकर्णदुर्योधनशाल्वशल्य- द्रौणायनिक्राथसुनीथवक्राः
कलिङ्गवङ्गाधिपपाण्ड्यपौण्ड्रा विदेहराजो यवनाधिपश्च। अन्ये च नानानृपपुत्रपौत्रा राष्ट्राधिपाः पङ्कजपत्रनेत्राः
किरीटहाराङ्गदचक्रवालै- र्विभूषिताङ्गाः पृथुबाहवस्ते। अनुक्रमं विक्रमसत्वयुक्ता बलेन वीर्येण च नर्दमानाः
तत्कार्मुकं संहननोपपन्नं सज्यं न शेकुर्मनसाऽपि कर्तुम्। ते विक्रमन्तः स्फुरता दृढेन विक्षिप्यमाणा धनुषा नरेन्द्राः
विचेष्टमाना धरणीतलस्था यथाबलं शैक्ष्यगुणक्रमाश्च। गतौजसः स्नस्तकिरीटहारा विनिःश्वसन्तः शमयांबभूवुः