एते चान्ये च बहवो धार्तराष्ट्रा महाबलाः। कर्णेन सहिता वीरास्त्वदर्थं समुपागताः
असङ्ख्याता महात्मानः पार्थिवाः क्षत्रियर्षभाः। शकुनिः सौबलश्चैव वृषकोऽथ बृहद्बलः
एते गान्धारराजस्य सुताः सर्वे समागताः। अश्वत्थामा च भोजश्च सर्वशस्त्रभृतां वरौ
समवेतौ महात्मानौ त्वदर्थे समलङ्कृतौ। बृहन्तो मणिमांश्चैव दण्डधारश्च पार्थिवः
सहदेवजयत्सेनौ मेघसन्धिश्च पार्थिवः। विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च
वार्धक्षेमिः सुशर्मा च सेनाबिन्दुश्च पार्थिवः। सुकेतुः सह पुत्रेण सुनाम्ना च सुवर्चसा
सुचित्रः सुकुमारश्च वृकः सत्यधृतिस्तथा। सूर्यध्वजो रोचमानो नीलश्चित्रायुधस्तथा
अंशुमांश्चेकितानश्च श्रेणिमांश्च महाबलः। समुद्रसेनपुत्रश्च चन्द्रसेनः प्रतापवान्
जलसन्धः पितापुत्रौ विदण्डो दण्ड एव च। पौण्ड्रको वासुदेवश्च भगदत्तश्च वीर्यवान्
कलिङ्गस्ताम्रलिप्तश्च पत्तनाधिपतिस्तथा। मद्रराजस्तथा शल्यः सहपुत्रो महारथः
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च। कौरव्यः सोमदत्तश्च पुत्रश्चास्य महारथः
समवेतास्त्रयः शूरा भूरिर्भूरिश्रवाः शलः। सुदक्षिणश्च काम्भोजो दृढधन्वा च पौरवः
बृहद्बलः सुषेणश्च शिबिरौशीनस्तथा। पटच्चरनिहन्ता च कारूषाधिपतिस्तथा
सङ्कर्षणो वासुदेवो रौक्मिणेयश्च वीर्यवान्। साम्बश्च चारुदेष्णश्च प्राद्युम्निः सगदस्तथा
अक्रूरः सात्यकिश्चैव उद्धवश्च महामतिः। कृतवर्मा च हार्दिक्यः पृथुर्विपृथुरेव च
विदूरथश्च कङ्कश्च शङ्कुश्च सगवेषणः। आशावहोऽनिरुद्धश्च समीकः सारिमेजयः
वीरो वातपतिश्चैव झिल्लीपिण्डारकस्तथा। उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तिताः
भगीरथो बृहत्क्षत्रः सैन्धवश्च जयद्रथः। बृहद्रथो बाह्लिकश्च श्रउतायुश्च महारथः
उलूकः कैतवो राजा चित्राङ्गदशुभाङ्गदौ। वत्सराजश्च मतिमान्कोसलाधिपतिस्तथा
शिशुपालख्च विक्रान्तो जरासन्धस्तथैव च। एते चान्ये च बहवो नानाजनपदेश्वराः
त्वदर्थमागता भद्रे क्षत्रियाः प्रथिता भुवि। एते भेत्स्यन्ति विक्रान्तास्त्वदर्थे लक्ष्यमुत्तमम्। विध्यते य इदं लक्ष्यं वरयेथाः शुभेऽद्य तम्
तेऽलङ्कृताः कुण्डलिनो युवानः परस्परं स्पर्धमाना नरेन्द्राः। अस्त्रं बलं चात्मनि मन्यमानाः सर्वें समुत्पेतुरुदायुधास्ते
रूपेण वीर्येण कुले चैव शीलेन वित्तेन च यौवनेन। समिद्धदर्पा मदवेगभिन्ना मत्ता यथा हैमवता गजेन्द्राः
परस्परं स्पर्धया प्रेक्षमाणाः सङ्कल्पजेनाभिपरिप्लुताङ्गाः। कृष्णा ममैवेत्यभिभाषमाणा नृपाः समुत्पेतुरथासनेभ्यः
ते क्षत्रिया रङ्गगताः समेता जिगीषमाणा द्रुपदात्मजां ताम्। चकाशिरे पर्वतराजकन्या- मुमां यथा देवगणाः समेताः
कन्दर्पबाणाभिनिपीडिताङ्गां कृष्णागतैस्ते हृदयैर्नरेन्द्राः। रङ्गावतीर्णा द्रुपदात्मजार्थं द्वेषं प्रचक्रुः सुहृदोऽपि तत्र
अथाययुर्देवगणा विमानै रुद्रादित्या वसवोऽथाश्विनौ च। साध्याश्च सर्वे मरुतस्तथैव यमं पुरस्कृत्य धनेश्वरं च
दैत्याः सुपर्णाश्च महोरगाश्च देवर्षयो गुह्यकाश्चारणाश्च। विश्वावसुर्नारदपर्वतौ च गन्धर्वमुख्याः सहसाऽप्सरोभिः
हलायुधस्तत्र जनार्दनश्च वृष्ण्यन्धकाश्चैव यताप्रधानम्। प्रेक्षां स्म चक्रुर्यदुपुङ्गवास्ते स्थिताश्च कृष्णस्य मते महान्तः
दृष्ट्वा तु तान्मत्तगजेन्द्ररूपा- न्पञ्चाभिपद्मानिव वारणेन्द्रान्। भस्मावृताङ्गानिव हव्यवाहान् कृष्णः प्रदध्यौ यदुवीरमुख्यः