ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम्। विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते
ततः कतिपयाहस्य विवाहे समुपस्थिते। सखीभिः क्रीडती सार्धं सा कन्यावरवर्णिनी
नापश्यत्संप्रसुप्तं वै भुजंगं तिर्यगायतम्। पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता
स तस्याः संप्रमत्तायाश्चोदितः कालधर्मणा। विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत्
सा दष्टा तेन सर्पेण पपात सहसा भुवि। विवर्णा विगतश्रीका भ्रष्टाभरणचेतना
निरानन्दकरी तेषां बन्धूनां मुक्तमूर्धजा। व्यसुरप्रेक्षणीया सा प्रेक्षणीयतमाऽभवत्
प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता। भूयो मनोहरतरा बभूव तनुमध्यमा
ददर्श तां पिता चैव ये चैवान्ये तपस्विनः। विचेष्टमानां पतितां भूतले पद्मवर्चसम्
ततः सर्वे द्विजतराः समाजग्मुः कृपान्विताः। स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः
उद्दालकः कठश्चैव श्वेतश्चैव महायशाः। भरद्वाजः कौणकृत्स्य आर्ष्टिषेणोऽथ गौतमः
प्रमतिः सह पुत्रेण तथान्ये वनवासिनः। तां ते कन्यां व्यसुं दृष्ट्वा भुजंगस्य विषार्दिताम्
रुरुदुः कृपयाऽविष्टा रुरुस्त्वार्तो बहिर्ययौ। ते च सर्वे द्विजश्रेष्ठास्तत्रैवोपाविशंस्तदा
तेषु तत्रोपविष्टेषु ब्राह्मणेषु महात्मसु। रुरुश्चुक्रोश गहनं वनं गत्वाऽतिदुःखितः
शोकेनाभिहतः सोऽथ विलपन्करुणं बहु। अब्रवीद्वचनं शोचन्प्रियां स्मृत्वा प्रमद्वराम्
शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी। `प्राणानपहरन्तीव पूर्णचन्द्रनिभानना
यदि पीनायतश्रोणी पद्मपत्रनिभेक्षणा। मुमूर्षुरपि मे प्राणानादायाशु गमिष्यति
पितृमातृसखीनां च लुप्तपिण्डस्य तस्य मे।' बान्धवानां च सर्वेषां किं नु दुःखमतःपरम्
यदि दत्तं तपस्तप्तं गुरवो वा मया यदि। सम्यगाराधितास्तेन संजीवतु मम प्रिया
यथा च जन्मप्रभृति यतात्माऽहं धृतव्रतः। प्रमद्वरा तथाद्यैषा समुत्तिष्ठतु भामिनी
[एवं लालप्यतस्तस्य भार्यार्थे दुःखितस्य च। देवदूतस्तदाऽभ्येत्य वाक्यमाह रुरुं वने।।]
कृष्णे विष्णौ हृषीकेशे लोकेशेऽसुरविद्विषि। यदि मे निश्चला भक्तिर्मम जीवतु सा प्रिया
विलप्यमाने तु रुरौ सर्वे देवाः कृपान्विताः। दूतं प्रस्थापयामासुः संदिश्यास्य हितं वचः
स दूतस्त्वरितोऽभ्येत्य देवानां प्रियकृच्छुचिः। उवाच देववचनं रुरुमाभाष्य दुःखितम्
देवैः सर्वैरहं ब्रह्मन्प्रेषितोऽस्मि तवान्तिकम्। त्वद्धितं त्वद्धितैरुक्तं शृणु वाक्यं द्विजोत्तम
अभिधत्से ह यद्वाचा रुरो दुःखान्न तन्मृषा। न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः
गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता। तस्माच्छोके मनस्तात मा कृथास्त्वं कथंचन
उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः। तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीह प्रमद्वराम्
क उपायः कृतो देवैर्बूहि तत्त्वेन खेचर। करिष्येऽहं तथा श्रुत्वा त्रातुमर्हति मां भवान्
आयुषोऽर्धं प्रयच्छ त्वं कन्यायै भृगुनन्दन। एवमुत्थास्यति रुरो तव भार्या प्रयद्वरा
आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम। शृङ्गाररूपाभरणा समुत्तिष्ठतु मे प्रिया