ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्। ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्
ततः समाजो ववृधे स राजन्दिवसान्बहून्। रत्नप्रदानबहुलः शोभितो नटनर्तकैः
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे। `मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः। पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः
वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा। सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः
तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम्। निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम्
निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः। केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन्
धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन्। बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः
दूर्वामधूकरचितं माल्यं तस्या ददुः करे। चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये
रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा। अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ
आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत्। कालाञ्जनं नयनयोराचारार्थं समादधुः
भूषणं रत्नखचितैरलंचक्रुर्यथोचितम्। माता च तस्याः पृषती हरितालमनश्शिलाम्
अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे। अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः
माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति। सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः
एनामारोपयामासुः करिणीं कुचभूषिताम्। ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन्
विलासिनीजनाश्चापि प्रवरं करिणीशतम्। माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः
जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः। कोलाहलो महानासीत्तस्मिन्पुरवरे तदा
धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत। द्रुपदो रङ्गदेशे तु बलेन महता युतः
तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः।' आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम्
मालां च समुपादाय काञ्चनीं समलङ्कृताम्। `आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम्
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ। `तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले। प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा
पुरोहितः सोमकानां मन्त्रविद्ब्राह्मणः शुचिः। परिस्तीर्य जुहावाग्निमाज्येन विधिवत्तदा
संतर्पयित्वा ज्वलनं ब्राह्मणान्स्वस्ति वाच्य च। वारयामास सर्वाणि वादित्राणि समन्ततः
निःशब्दे तु कृते तस्मिन्धृष्टद्युम्नो विशांपते। कृष्णामादाय विधिवन्मेघदुन्दुभिनिःस्वनः
रङ्गमध्यं गतस्तत्र मेघगम्भीरया गिरा। वाक्यमुच्चैर्जगादेदं श्लक्ष्णमर्थवदुत्तमम्
इदं धनुर्लक्ष्यमिमे च बाणाः शृण्वन्तु मे भूपतयः समेताः। छिद्रेण यन्त्रस्य मसर्पयध्वं शरैः शितैर्व्योमचरैर्दशार्धैः
एतन्महत्कर्म करोति यो वै कुलेन रूपेण बलेन युक्तः। तस्याद्य भार्या भगिनी ममेयं कृष्णा भवित्री न मृषा ब्रवीमि
तानेवमुक्त्वा द्रुपदस्य पुत्रः पश्चादिदं तां भगिनीमुवाच। नाम्ना च गोत्रेण च कर्मणा च संकीर्तयन्भूमिपतीन्समेतान्
दुर्योधनो दुर्विषहो दुर्मुखो दुष्प्रधर्षणः। विविंशतिर्विकर्णश्च सहो दुःशासनस्तथा
युयुत्सुर्वायुवेगश्च भीमवेगरवस्तथा। उग्रायुधो बलाकी च करकायुर्विरोचनः
कुण्डकश्चित्रसेनश्च सुवर्चाः कनकध्वजः। नन्दको बाहुशाली च तुहुण्डो विकटस्तथा