प्राकारपरिखोपेतो द्वारतोरणमण्डितः। वितानेन विचित्रेण सर्वतः समलङ्कृतः
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः। चन्दनोदकसिक्तश्च माल्यदामोपशोभितः
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः। सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः। सुखारोहणसोपानैर्महासनपरिच्छदैः
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः। हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः
असंबाधशतद्वारैः शयनासनशोभितैः। बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः। स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः
तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः। राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः। प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः
मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः। कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्
ब्राह्मणैस्ते च सहिताः पाण्डवाः समुपाविशन्। ऋद्धिं पञ्चालराजस्य पश्यन्तस्तामनुत्तमाम्
ततः समाजो ववृधे स राजन्दिवसान्बहून्। रत्नप्रदानबहुलः शोभितो नटनर्तकैः
वर्तमाने समाजे तु रमणीयेऽह्नि षोडशे। `मैत्रे मुहूर्ते तस्याश्च राजदाराः पुराविदः। पुत्रवत्यः सुवसनाः प्रतिकर्मोपचक्रमुः
वैडूर्यमयपीठे तु निविष्टां द्रौपदीं तदा। सतूर्यं स्नापयाञ्चक्रुः स्वर्णकुम्भस्थितैर्जलैः
तां निवृत्ताभिषेकां च दुकूलद्वयधारिणीम्। निन्युर्मणिस्तम्भवतीं वेदिं वै सुपरिष्कृताम्
निवेश्य प्राङ्मुखीं हृष्टां विस्मिताक्ष्यः प्रसाधिकाः। केनालङ्करणेनेमामित्यन्योन्यं व्यलोकयन्
धूपोष्मणा च केशानामार्द्रभावं व्यपोहयन्। बबन्धुरस्या धम्मिल्लं माल्यैः सुरभिगन्धिभिः
दूर्वामधूकरचितं माल्यं तस्या ददुः करे। चक्रुश्च कृष्णागरुणा पत्रसङ्गं कुचद्वये
रेजे सा चक्रवाकाङ्का स्वर्णदीर्घा सरिद्वरा। अलकैः कुटिलैस्तस्या मुखं विकसितं बभौ
आसक्तभृङ्गं कुसुमं शशिम्बिम्बं जिगाय तत्। कालाञ्जनं नयनयोराचारार्थं समादधुः
भूषणं रत्नखचितैरलंचक्रुर्यथोचितम्। माता च तस्याः पृषती हरितालमनश्शिलाम्
अङ्गुलीभ्यामुपादाय तिलकं विदधे मुखे। अलङ्कृतां वधूं दृष्ट्वा योषितो मुदमाययुः
माता न मुमुदे तस्याः पतिः कीदृग्भविष्यति। सौविदल्लाः समागम्य द्रुपदस्याज्ञया ततः
एनामारोपयामासुः करिणीं कुचभूषिताम्। ततोऽवाद्यन्त वाद्यानि मङ्गलानि दिवि स्पृशन्
विलासिनीजनाश्चापि प्रवरं करिणीशतम्। माङ्गल्यगीतं गायन्त्यः पार्स्वयोरुभयोर्ययुः
जनापसरणे व्यग्राः प्रतिहार्यः पुरा ययुः। कोलाहलो महानासीत्तस्मिन्पुरवरे तदा
धृष्टद्युम्नो ययावग्रे हयमारुह्य भारत। द्रुपदो रङ्गदेशे तु बलेन महता युतः
तस्थौ व्यूह्य महानीकं पालितं दृढधन्विभिः।' आप्लुताङ्गीं सुवसनां सर्वाभरणभूषिताम्
मालां च समुपादाय काञ्चनीं समलङ्कृताम्। `आगतां ददृशुः सर्वे रङ्गभूमिमलङ्कृताम्
अवतीर्णा ततो रङ्गं द्रौपदी भरतर्षभ। `तस्थौ प्रमुदितान्सर्वान्नृपतीन्रङ्गमण्डले। प्रेक्षन्ती व्रीडितापाङ्गी द्रष्टृणां सुमनोहरा