ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः। कुम्भकारस्य शालायां निवासं चक्रिरे तदा
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः। तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्
यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम्। ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां
अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत्। स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत्
कन्यादानात्तु शरणं सोऽमन्यत महीपतिः।' यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने
दास्यामि कृष्मामिति वै न चैनं विवृणोति सः। `जामातृबलसंयोगं मेने हि बलवत्तरम्
सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय। दृढं धनुरथानम्यं कारयामास भारत
वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः। तद्धनुः किन्धुरं नाम देवदत्तमुपानयत्
आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला। न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत्
शङ्करेण वरं दत्तं प्रीतेन च महात्मना। तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः
मया कर्तव्यमधुना दुष्करं लक्ष्यवेधनम्। इति निश्चित्य मनसा कारितं लक्ष्यमुत्तमम्
यन्त्रं वैहायसं चापि कारयामास कृत्रिमम्। तेन यन्त्रेण सहितं राजँल्लक्ष्यं च काञ्चनम्
इदं सज्यं धनुः कृत्वा सज्जैरेभिश्च सायकैः। अतीत्य लक्ष्य यो वेद्धा स लब्धा मत्सुतामिति
इति स द्रुपदो राजा स्वयंवरमघोषयत्। तच्छ्रुत्वा पार्थिवाः सर्वे समीयुस्तत्र भारत
ऋषयश्च महात्मानः स्वयंवरदिदृक्षवः। दुर्योधनपुरोगाश्च सकर्णाः कुरवो नृप
यादवा वासुदेवेन सार्धमन्धकवृष्णयः।' ततोऽर्चिता राजगुणा द्रुपदेन महात्मना
उपोपविष्टा मञ्चेषु द्रष्टुकामाः स्वयंवरम्। `ब्राह्मणाश्च महाभागा देशेभ्यः समुपागमन्
ब्राह्मणैरेव सहिताः पाण्डवाः समुपाविशन्। त्रयस्त्रिंशत्सुराः सर्वे विमानैर्व्योम्न्यवस्थिताः
ततः पौरजनाः सर्वे सागरोद्धूतनिःस्वनाः। शिंशुमारशिरः प्राप्य न्यविशंस्ते स्म पार्थिवाः
प्रागुत्तरेण नगराद्भूमिभागे समे शुभे। समाजवाटः शुशुभे भवनैः सर्वतो वृतः
प्राकारपरिखोपेतो द्वारतोरणमण्डितः। वितानेन विचित्रेण सर्वतः समलङ्कृतः
तूर्यौघशतसङ्कीर्णः परार्ध्यागुरुधूपितः। चन्दनोदकसिक्तश्च माल्यदामोपशोभितः
कैलासशिखरप्रख्यैर्नभस्तलविलेखिभिः। सर्वतः संवृतः शुभ्रैः प्रासादैः सुकृतोच्छ्रयै
सुवर्णजालसंवीतैर्मणिकुट्टिमभूषणैः। सुखारोहणसोपानैर्महासनपरिच्छदैः
स्रग्दामसमवच्छन्नैरगुरूत्तमवासितैः। हंसांशुवर्णैर्बहुभिरायोजनसुगन्धिभिः
असंबाधशतद्वारैः शयनासनशोभितैः। बहुधातुपिनद्धाङ्गैर्हिमवच्छिखरैरिव
तत्र नानाप्रकारेषु विमानेषु स्वलङ्कृताः। स्पर्धमानास्तदाऽन्योन्यं निषेदुः सर्वपार्थिवाः
तत्रोपविष्टान्ददृशुर्महासत्वान्पृथग्जनाः। राजसिंहान्महाभागान्कृष्णागुरुविभूषितान्
महाप्रसादान्ब्राह्मण्यान्स्वराष्ट्रपरिरक्षिणः। प्रियान्सर्वस्य लोकस्य सुकृतैः कर्मभिः शुभैः
मञ्चेषु च परार्द्ध्येषु पौरजानपदा जनाः। कृष्णादर्शनसिद्ध्यर्थं सर्वतः समुपाविशन्