यवीयान्देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि। गन्धर्वाय `स च प्रीतो वचनं चेदमब्रवीत्
मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे। उपकारकृतं मित्रं प्रतिकारेण योजये
गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम। एवमुक्तोऽर्जुनः' प्रीतो वचनं चेदमब्रवीत्
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम। कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत्
तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह। रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते। तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः। वन्येन फलमूलेन पौरोहित्येन चैव ह
ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः। ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे
पुरोहितेन तेनाथ गुरुणा संगतास्तदा। नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः। वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया। मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः
स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि। तेन धर्मविदा पार्था योज्या सर्वविदा वृताः
मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः। बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः। मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम्
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः। तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्। प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्। ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः। कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्
पश्यन्तो रमणीयानि वनानि च सरांसि च। तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः। आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः
ते तु दृष्ट्वा पुरं तच्च स्कन्धावारं च पाण्डवाः। कुम्भकारस्य शालायां निवासं चक्रिरे तदा
तत्र भैक्षं समाजह्रुर्ब्राह्मणीं वृत्तिमाश्रिताः। तान्संप्राप्तांस्तथा वीराञ्जज्ञिरे न नराः क्वचित्
यज्ञसेनस्तु पाञ्चालो भीष्मद्रोमकृतागसम्। ज्ञात्वाऽऽत्मानं तदारेभे त्राणायात्मक्रियां क्षमां
अवाप्य धृष्टद्युम्नं हि न स द्रोणमचिन्तयत्। स तु वैरप्रसङ्गाच्च भीष्माद्भयमचिन्तयत्
कन्यादानात्तु शरणं सोऽमन्यत महीपतिः।' यज्ञसेनस्य कामस्तु पाण्डवाय किरीटिने
दास्यामि कृष्मामिति वै न चैनं विवृणोति सः। `जामातृबलसंयोगं मेने हि बलवत्तरम्
सोऽन्वेषमाणः कौन्तेयान्पाञ्चालो जनमेजय। दृढं धनुरथानम्यं कारयामास भारत
वैयाघ्रपद्यस्योग्रं वै सृञ्जयस्य महीपतिः। तद्धनुः किन्धुरं नाम देवदत्तमुपानयत्
आयसी तस्य च ज्याऽऽसीत्प्रतिबद्धा महाबला। न तु ज्यां प्रसहेदन्यस्तद्धनुःप्रवरं महत्
शङ्करेण वरं दत्तं प्रीतेन च महात्मना। तन्निष्फलं स्यान्न तु मे इति प्रामाण्यमागतः