कल्माषपादं राजर्षिमशपद्ब्राह्मणी रुषा। यस्मान्ममाकृतार्थायास्त्वया क्षुद्र नृशंसवत्
प्रेक्षन्त्या भक्षितो मेऽद्य प्रियो भर्ता महायशाः। तस्मात्त्वमपि दुर्बुद्धे मच्छापपरिविक्षतः
पत्नीमृतावनुप्राप्य सद्यस्त्यक्ष्यसि जीवितम्। `तेन प्रसाद्यमाना सा प्रसादमकरोत्तदा।' यस्य चर्षेर्वसिष्ठस्य त्वया पुत्रा विनाशिताः
तेन संगम्य ते भार्या तनयं जनयिष्यति। सते वंशकरः पुत्रो भविष्यति नृपाधम
एवं शप्त्वा तु राजानं सा तमाङ्गिरसी शुभा। तस्यैव सन्निधौ दीप्तं प्रविवेश हुताशनम्
वसिष्ठश्च महाभागः सर्वमेतदवैक्षत। ज्ञानयोगेन महता तपसा च परन्तप
मुक्तशापश्च राजर्षिः कालेन महता ततः। ऋतुकालेऽभिपतितो मदयन्त्या निवारितः
न हि सस्मार स नृपस्तं शापं काममोहितः। देव्याः सोऽथ वचः श्रुत्वा संभ्रान्तो नृपसत्तमः
तं शापमनुसंस्मृत्य पर्यतप्यद्भृशं तदा। एतस्मात्कारणाद्राजा वसिष्ठं सन्ययोजयत्। स्वदारेषु नरश्रेष्ठ शापदोषसमन्वितः
अस्माकमनुरूपो वै यः स्याद्गन्धर्व वेदवित्। पुरोहितस्तमाचक्ष्व सर्वं हि विदितं तव
यवीयान्देवलस्यैष वने भ्राता तपस्यति। धौम्य उत्कोचके तीर्थे तं वृणुध्वं यीच्छथ
ततोऽर्जुनोऽस्त्रमाग्नेयं प्रददौ तद्यथाविधि। गन्धर्वाय `स च प्रीतो वचनं चेदमब्रवीत्
मयि सन्ति हयश्रेष्ठास्तव दास्यामि वै सखे। उपकारकृतं मित्रं प्रतिकारेण योजये
गृह्णीष्व चाक्षुषीं विद्यामिमां भरतसत्तम। एवमुक्तोऽर्जुनः' प्रीतो वचनं चेदमब्रवीत्
त्वय्येव तावत्तिष्ठन्तु हया गन्धर्वसत्तम। कार्यकाले ग्रहीष्यामः स्वस्ति तेऽस्त्विति चाब्रवीत्
तेऽन्योन्यमभिसंपूज्य गन्धर्वः पाण्डवाश्च ह। रम्याद्भागीरथीतीराद्यथाकामं प्रतस्थिरे
तत उत्कोचकं तीर्थं गत्वा धौम्याश्रमं तु ते। तं वव्रुः पाण्डवा धौम्यं पौरोहित्याय भारत
तान्धौम्यः प्रतिजग्राह सर्ववेदविदां वरः। वन्येन फलमूलेन पौरोहित्येन चैव ह
ते समाशंसिरे लब्धां श्रियं राज्यं च पाण्डवाः। ब्राह्मणं तं पुरस्कृत्य पाञ्चालीं च स्वयंवरे
पुरोहितेन तेनाथ गुरुणा संगतास्तदा। नाथवन्तमिवात्मानं मेनिरे भरतर्षभाः
स हि वेदार्थतत्त्वज्ञस्तेषां गुरुरुदारधीः। वेदविच्चैव वाग्मी च धौम्यः श्रीमान्द्विजोत्तमः
तेजसा चैव बुद्ध्या च रूपेण यशसा श्रिया। मन्त्रैश्च विविधैर्धौम्यस्तुल्य आसीद्बृहस्पतेः
स चापि विप्रस्तान्मेने स्वभावाभ्यधिकान्भुवि। तेन धर्मविदा पार्था योज्या सर्वविदा वृताः
मेनिरे सहिता वीराः प्राप्तं राज्यं च पाण्डवाः। बुद्धिवीर्यबलोत्साहैर्युक्ता देवा इवापरे
कृतस्वस्त्ययनास्तेन ततस्ते मनुजाधिपाः। मेनिरे सहिता गन्तुं पाञ्चाल्यास्तं स्वयंवरम्
ततस्ते नरशार्दूला भ्रातरः पञ्च पाण्डवाः। तं ब्राह्मणं पुरस्कृत्य पाञ्चाल्याश्च स्वयंवरम्। प्रययुर्द्रौपदीं द्रष्टुं तं च देशं महोत्सवम्
ततस्ते तं महात्मानं शुद्धात्मानमकल्मषम्। ददृशुः पाण्डवा वीराः पथि द्वैपायनं तदा
तस्मै यथावत्सत्कारं कृत्वा तेन च सत्कृताः। कथान्ते चाभ्यनुज्ञाताः प्रययुर्द्रुपदक्षयम्
पश्यन्तो रमणीयानि वनानि च सरांसि च। तत्रतत्र वसन्तश्च शनैर्जग्मुर्महराथाः
स्वाध्यायवन्तः शुचयो मधुराः प्रियवादिनः। आनुपूर्व्येण संप्राप्ताः पाञ्चालान्पाण्डुनन्दनाः