शक्तिं चापि हि धर्मज्ञं नातिक्रान्तुमिहार्हसि। प्रजायाश्च ममोच्छेदं न चैवं कर्तुमर्हसि
शापाद्धि शक्तेर्वासिष्ठ तदा तदुपपादितम्। आत्मजेन स दोषेण शक्तिर्नीत इतो दिवम्
न हि तं राक्षसः कश्चिच्छक्तो भक्षयितुं मुने। `वासिष्ठो भक्षितश्चासीत्कौशिकोत्सृष्टरक्षसा। शापं न कुर्वन्ति तदा न च त्राणपरायणाः
क्षमावन्तोऽदहन्देहं देहमन्यद्भवत्विति।' आत्मनैवात्मनस्तेन दृष्टो मृत्युस्तदाऽभवत्
निमित्तभूतस्तत्रासीद्विश्वामित्रः पराशर। राजा कल्माषपादश्च दिवमारुह्य मोदते
ये च शक्त्यवराः पुत्रा वसिष्ठस्य महामुने। ते च सर्वे मुदा युक्ता मोदन्ते सहिताः सुरैः
सर्वमेतद्वसिष्ठस्य विदितं वै महामुने। रक्षसां च समुच्छेद एष तात तपस्विनाम्
निमित्तभूतस्त्वं चात्र क्रतौ वासिष्ठनन्दन। तत्सत्रं मुञ्च भद्रं ते समाप्तमिदमस्तु ते
एवमुक्तः पुलस्त्येन वसिष्ठेन च धीमता। तदा समापयामास सत्रं शाक्तो महामुनिः
सर्वराक्षससत्राय संभृतं पावकं तदा। उत्तरे हिमवत्पार्श्वे उत्ससर्ज महावने
स तत्राद्यापि रक्षांसि वृक्षानश्मन एव च। भक्षयन्दृश्यते वह्निः सदा पर्वणि पर्वणि
पुनश्चैव महातेजा विश्वामित्रजिघांसया। अग्निं संभृतवान्घोरं शाक्तेयः सुमहातपाः
वासिष्ठसंभृतश्चाग्निर्विश्वामित्रहितैषिणा। तेजसा वह्नितुल्येन ग्रस्तः स्कन्देन धीमता
राज्ञा कल्माषपादेन गुरौ ब्रह्मविदां वरे। कारणं किं पुरस्कृत्य भार्या वै सन्नियोजिता
जानता वै परं धर्मं वसिष्ठेन महात्मना। अगम्यागमनं कस्मात्कृतं तेन महर्षिणा
अधर्मिष्ठं वसिष्ठेन कृतं चापि पुरा सखे। एतन्मे संशयं सर्वं छेत्तुमर्हसि पृच्छतः
धनञ्जय निबोधेयं यन्मां त्वं परिपृच्छसि। वसिष्ठं प्रति दुर्धर्ष तथा मित्रसहं नृपम्
कथितं ते मया सर्वं यथा शप्तः स पार्थिवः। शक्तिना भरतश्रेष्ठ वासिष्ठेन महात्मना
स तु शापवशं प्राप्तः क्रोधपर्याकुलेक्षणः। निर्जगाम पुराद्राजा सहदारः परन्तपः
अरण्यं निर्जनं गत्वा सदारः परिचक्रमे। नानामृगगणाकीर्णं नानासत्वसमाकुलम्
नानागुल्मलताच्छन्नं नानाद्रुमसमावृतम्। अरण्यं घोरसन्नादं शापग्रस्तः परिभ्रमन्
स कदाचित्क्षुधाविष्टो मृगयन्भक्ष्यमात्मनः। ददर्श सुपरिक्लिष्टः कस्मिंश्चिन्निर्जने वने
ब्राह्मणं ब्राह्मणीं चैव मिथुनायोपसंगतौ। तौ तं वीक्ष्य सुवित्रस्तावकृतार्थौ प्रधावितौ
तयोः प्रद्रवतोर्विप्रं जग्राह नृपतिर्बलात्। दृष्ट्वा गृहीतं भर्तारमथ ब्राह्मण्यभाषत
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि सुव्रत। आदित्यवंशप्रभवस्त्वं हि लोके परिश्रुतः
अप्रमत्तः स्थि धर्मे गुरुशुश्रूषणे रतः। शापोपहत दुर्धर्ष न पापं कर्तुमर्हसि
ऋतुकाले तु संप्राप्ते भर्तृव्यसनकर्शिता। अकृतार्था ह्यहं भर्त्रा प्रसवार्थं समागता
प्रसीद नृपतिश्रेष्ठ भर्ताऽयं मे विसृज्यताम्। एवं विक्रोशमानायास्तस्यास्तु न नृशंसवत्
भर्तारं भक्षयामास व्याघ्रो मृगमिवेप्सितम्। तस्याः क्रोधाभिभूताया यान्यश्रूण्यपतन्भुवि
सोऽग्निः समभवद्दीप्तस्तं च देशं व्यदीपयत्। ततः सा शोकसंतप्ता भर्तृव्यसनकर्शिता