प्रकीर्णकेशाः किल मे मातरः पितरस्तथा। भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्
तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत। माता तदा दधारेयमूरुणैकेन मां शुभा
प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते। तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते
यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्। तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु
जानन्नपि च यः पापं शक्तिमान्न नियच्छति। ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते
राजभिश्चेश्वरैश्चैव यदि वै पितरो मम। शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्
अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्। भवतां च वचो नालमहं समभिवर्तितुम्
ममापि चेद्भवेदेवमीश्वरस्य सतो महत्। उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्
यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति। दहेदेष च मामेव निगृहीतः स्वतेजसा
भवतां च विजानामि सर्वलोकहितेप्सुताम्। तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः
य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति। अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः
आपोमयाः सर्वरसाः सर्वमापोमयं जगत्। तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम
अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ। मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति। न चैवं सामरा लोका गमिष्यन्ति पराभवम्
ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये। उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः। तमग्निमुद्हिरद्वक्त्रात्पिबत्यापो महोदधौ
तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि। पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर
एवमुक्तः स विप्रर्षिर्वसिष्ठेन महात्मना। न्ययच्छदात्मनः क्रोधं सर्वलोकपराभवात्
ईजे च स महातेजाः सर्ववेदविदां वरः। ऋषी राक्षससत्रेण शाक्तेयोऽथ पराशरः
ततो वृद्धांश्च बालांश्च राक्षसान्स महामुनिः। ददाह वितते यज्ञे शक्तेर्वधमनुस्मरन्
न हि तं वारयामास वसिष्ठो रक्षसां वधात्। द्वितीयामस्य मां भाङ्क्षं प्रतिज्ञामिति निश्चयात्
त्रयाणां पावकानां च सत्रे तस्मिन्महामुनिः। आसीत्पुरस्ताद्दीप्तानां चतुर्थ इव पावकः
तेन यज्ञेन शुभ्रेण हूयमानेन शक्तितः। तद्विदीपितमाकाशं सूर्येणेव घनात्यये
तं वसिष्ठादयः सर्वे मुनयस्तत्र मेनिरे। तेजसा दीप्यमानं वै द्वितीयमिव भास्करम्
ततः परमदुष्प्रापमन्यैर्ऋषिरुधारधीः। समापिपयिषुः सत्रं तमत्रिः समुपागमत्
तथा पुलस्त्यः पुलहः क्रतुश्चैव महाक्रतुः। तत्राजग्मुरमित्रघ्न रक्षसां जीवितेप्सया
पुलस्त्यस्तु वधात्तेषां रक्षसां भरतर्षभ। उवाचेदं वचः पार्थ पराशरमरिन्दमम्
कच्चित्तातापविघ्नं ते कच्चिन्नन्दसि पुत्रक। अजानतामदोषाणां सर्वेषां रक्षसां वधात्
प्रजोच्छेदमिमं मह्यं न हि कर्तु त्वमर्हसि। नैष तात द्विजातीनां धर्मो दृष्टस्तपस्विनाम्
शम एव परो धर्मस्तमाचर पराशर। अधर्मिष्ठं वरिष्ठः सन्कुरुषे त्वं पराशर