भगवत्याः प्रसादेन गच्छेत्क्षत्रमनामयम्। उपारम्य च गच्छेम सहिताः पापकर्मणः
सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने। पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि
गन्धर्व उवाच
तेन चक्षूंषि वस्ताता व्यक्तं कोपान्महात्मना। स्मरता निहतान्बन्धूनादत्तानि न संशयः
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः। तदायमूरुणा गर्भो मया वर्षशतं धृतः
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह। विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया
सोऽयं पितृवधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति। तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः
तमेव यूयं याचध्वमौर्वं मम सुतोत्तमम्। अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रदास्यति
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादं च चकार सः
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः। स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत
चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः। भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम्
स चक्रे तात लोकानां विनाशाय मतिं तदा। सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः
इच्छन्नपचितिं कर्तुं भृगूणां भृगुनन्दनः। सर्वलोकविनाशाय तपसा सहतैधितः
तापयामास ताँल्लोकान्सदेवासुरमानुषान्। तपसोग्रेण महता नन्दयिष्यन्पितामहान्
ततस्तं पितरस्तात विज्ञाय कुलनन्दनम्। पितृलोकादुपागम्य सर्व ऊचुरिदं वचः
और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक। प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः
नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः। वधो ह्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम्
आयुषा विप्रकृष्टेन यदा नः खेद आविशत्। तदाऽस्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम्
निखातं यच्च वै वित्तं केनचिद्गृगुवेश्मनि। वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः
किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजोत्तम। यदस्माकं धनाध्यक्षः प्रभूतं धनमाहरत्
यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः। तदाऽस्माभिरयं दृष्ट उपायस्तात संमतः
आत्महा च पुमांस्तात न लोकाँल्लभते शुभान्। ततोऽस्माभिः समीक्ष्यैवं नात्मनात्मा निपातितः
न चैतन्नः प्रियं तात यदिदं कर्तुमिच्छसि। नियच्छेदं मनः पापात्सर्वलोकपराभवात्
मा वधीः क्षत्रियांस्तात न लोकान्सप्त पुत्रक। दूषयन्तं तपस्तेजः क्रोधमुत्पतितं जहि
उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा। सर्वलोकविनाशाय न सा मे वितथा भवेत्
वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे। अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्
यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति। नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्
अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता। स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः
अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा। आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे
सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः। आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत्