मन्यसे यं तु तातेति नैष तातस्तवानघ। आर्य एष पिता तस्य पितुस्तव यशस्विनः
स एवमुक्तो दुःखार्तः सत्यवागृषिसत्तमः। सर्वलोकविनाशाय मतिं चक्रे महामनाः
तं तथा निश्चितात्मानं स महात्मा महातपाः। ऋषिर्ब्रह्मविदां श्रष्ठो मैत्रावरुणिरन्त्यधीः
वसिष्ठो वारयामास हेतुना येन तच्छृणु
याज्यो वेदविदां लोके भृगूणां पार्थिवर्षभः। स तानग्रभुजस्तात धान्येन च धनेन च
सोमान्ते तर्पयामास विपुलेन विशांपतिः। तस्मिन्नृपतिशार्दूले स्वर्यातेऽथ कथंचन
बभूव तत्कुलेयानां द्रव्यकार्यमुपस्थितम्। भृगूणां तु धनं ज्ञात्वा राजानः सर्व एव ते
याचिष्णवोऽभिजग्मुस्तांस्ततो भार्गवसत्तमान्। भूमौ तु निददुः केचिद्भृगवो धनमक्षयम्
ददुः केचिद्द्विजातिभ्यो ज्ञात्वा क्षत्रियतो भयम्। भृहवस्तु ददुः केचित्तेषां वित्तं यथेप्सितम्
क्षत्रियाणां तदा तात कारणान्तरदर्शनात्। ततो महीतलं तात क्षत्रियेण यदृच्छया
खनताऽधिगतं वित्तं केनच्चिद्धृगुवेश्मनि। तद्वित्तं ददृशुः सर्वे समेताः क्षत्रियर्षभाः
अवमन्य ततः क्रोधाद्भृगूंस्ताञ्छरणगतान्। निजघ्नुः परमेष्वासाः सर्वांस्तान्निशितैः शरैः
आगर्भादवकृन्तन्तश्चेरुः सर्वां वसुन्धराम्। तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा
भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे। तासामन्यतमा गर्भं भयाद्दध्रे महौजसम्
ऊरुणैकेन वाभोरूर्भर्तुः कुलविवृद्धये। तं गर्भमुपलभ्याशु ब्राह्मण्येका भयार्दिता
गत्वा वै कथयामास क्षत्रियाणामुपह्वरे। ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः
ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा। अथ गर्भः स भित्त्वोरुं ब्राह्मण्या निर्जगाम ह
मुष्णन्दृष्टीः क्षत्रियाणां मध्याह्न इव भास्करः। ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः
ततस्ते मोघसङ्कल्पा भयार्ताः क्षत्रियाः पुनः। ब्राह्मणीं शरमं जग्मुर्दृष्ट्यर्थं तामनिन्दिताम्
ऊचुश्चैनां महाभागां क्षत्रियास्ते विचेतसः। ज्योतिःप्रहीणा दुःखार्ताः शान्तार्चिष इवाग्नयः
भगवत्याः प्रसादेन गच्छेत्क्षत्रमनामयम्। उपारम्य च गच्छेम सहिताः पापकर्मणः
सपुत्रा त्वं प्रसादं नः कर्तुमर्हसि शोभने। पुनर्दृष्टिप्रदानेन राज्ञः संत्रातुमर्हसि
गन्धर्व उवाच
तेन चक्षूंषि वस्ताता व्यक्तं कोपान्महात्मना। स्मरता निहतान्बन्धूनादत्तानि न संशयः
गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः। तदायमूरुणा गर्भो मया वर्षशतं धृतः
षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव ह। विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया
सोऽयं पितृवधाद्व्यक्तं क्रोधाद्वो हन्तुमिच्छति। तेजसा तस्य दिव्येन चक्षूंषि मुषितानि वः
तमेव यूयं याचध्वमौर्वं मम सुतोत्तमम्। अयं वः प्रणिपातेन तुष्टो दृष्टीः प्रदास्यति
एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम्। ऊचुः प्रसीदेति तदा प्रसादं च चकार सः
अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः। स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत